Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 53
________________ प्रमाणनिर्णये णस्तस्याप्रतिवेदनादित्यनेकस्वभावस्यैवानेककार्यकारित्वमभ्यनुज्ञातव्यम् । अनेकस्वभावत्वं च तस्य स्वकारणात्तथाविधात्तस्याऽपि तत्वं तथाविधात्तद्धेतोरिति नानवस्थानमत्र दोषस्तत्प्रबंधस्यानादित्वादित्युपपन्नमनेकांतव्याप्ततया सत्वस्य तद्विरोधिः सर्वथैकांतप्रत्याख्यानं प्रति साधनत्वम् । विरुद्धसहचरं यथा-नास्य मुनेमिथ्याज्ञानं सग्यग्दर्शनादिति । सम्यग्दर्शनं तत्साहचर्यनियमेन सम्यग्ज्ञानमुपसर्पयत्तत्प्रत्यनीकमिथ्याज्ञानप्रत्यवायमुपपादयतीत्युपपन्नं तत्र तस्य लिं. गत्वं । विरुद्धसहचरस्य कारणमत्रैव साध्ये तत्वाधिगमादिति, कार्य चानुकंपाऽऽस्तिक्यादिरिति । तत्वाधिगमो हि सम्यग्दर्शनस्य कारणमनुकंपादि च कार्यमविनाभावनिर्णयात् सम्यग्ज्ञानसहभाविनस्तस्य भावमवबोधयन्मिथ्याज्ञानव्युदासाध्यवसायमासादयति । एवमन्यदपि विधिरूपं प्रतिषेधलिंगं प्रतिपत्तव्यम् । प्रतिषेधरूपमपि तलिंगमनेकधा। तत्र स्वभावानुपलंभो यथानास्ति बोधत्मनि' रूपादिमत्वमनुपलंभात् खरमस्तके विषाणवदिति । न चेदमत्र मंतव्यं, परमाण्वादेः सतोऽपि क्वचिदनुपलंभादू व्यभिचार इति; ततः प्रकृतानुपलंभस्य॑ गोपालकलशधूमादेः पर्वतधूमादेरिव विलक्षणत्वेन तद्दोषोपनिपाताभावात् । तर्हि दृश्यविषयत्वमेव ततस्तस्य वैलक्षण्यमिति दृश्यानुपलंभस्यैव हेतुत्वमिति चेत् न, अदृश्यानुपलंभस्याप्यात्मनि पिशाचरूपत्वाभावे गमकत्वात् अन्यथा पिशाचो नाहमस्मीति व्यवहा १ वस्तुनः । २ सम्यग्ज्ञानं । ३ उपनयत् । ४ अभानं । ५ तत्वार्थोपदेशग्रहणादिभावः तत्वार्थानां श्रद्धानपूर्वकमवधारणं हि ग्रहणमत्रेष्टमन्यथाऽस्य ग्रहणाभासत्वात । ६ चेतसि । ७ परमावाद्यनुपलभात् । ८ रूपादिमत्वानुपलभस्य । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86