Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 61
________________ प्रमाणनिर्णये nawwamro w meaninrna णमतस्तदभावप्रतिपत्तौ तत्र वक्तृत्वादेरसंभावनमसंभावितव्यभिचाराचातस्तदभावस्य प्रतिपत्तिरिति । ततः स्थितं संभाव्यव्यभिचारत्वाद्वक्तृत्वादेरनैकांतिकत्वमिति। ननु एवं शब्दानित्यत्वे प्रमेयत्वमप्यनैकांतिकमेव भवेत् तस्य नित्ये गगनादावपि भावेन व्यभिचारादिति चेत् न, तस्य कूटस्थस्य प्रमितावनुपयोगादुपयोगे वा कुतो न सर्वदा तस्य प्रमेयत्वं? सहकारिसन्निधिसमय एव तद्भावादिति चेत् न, तदापि प्राच्यरूपापरित्यागेन तदनुपपत्तेः, तत्परित्यागे तु परिणामि नित्यमेव । तन्न कूटस्थं, न च तत्र भावाद्धेतो~भिचारः, संपक्षभावित्वेन साध्यप्रतिपत्तिं प्रत्यानुकूल्यात् । साध्यसपक्षत्वमपि तस्य शब्देऽपि सान्वयस्यैवानित्यत्वस्य सा. धनान्न निरन्वयस्य, तद्वति प्रमितेरसंभवात् । न हि सा ततः समसमयान्निष्पन्नत्वेन तस्यास्तनिरासत्वात् । नाऽप्यतीताच्चिरतरातीतादिव कार्यकालमप्राप्तात्ततोऽपि तदनुपपत्तेः । न चातत्प्रभवया तया तस्य प्रमेयत्वं “ नाकारणं विषय " इत्यस्य व्यापत्तेः। कथं पुनः सान्वयविनाशेऽप्यनित्यत्वे साध्ये न व्यभिचारः प्रमेयत्वस्य भाववदभावेऽप्यवस्तुनि भावात् तत्र च वस्तुधर्मस्यानित्यत्वस्यानुपपत्तेरिति चेत् न, तस्य कुतश्चिदप्रतिपत्तेः, व्यतिरेके च भावेभ्यस्तस्य कुतो न तेषां सांकर्यमें । तत्संबंधादिति चेत् न, तेनाऽपि स्वतः संकीर्णा १ सर्वज्ञाभावसिद्धौ वक्तृत्वाभावसिद्धिस्तत्सिद्धौ सर्वज्ञाभावसिद्धिः। २ घटत इति शेषः। ३ अज्ञातव्यभिचारात् । ४ अनेकांतिकं पुनधेित्यायुक्तप्रकारेण । ५ निश्चितव्यभिचाराख्यमिति भावः । ६ स्वप्रमितावित्यर्थः । ७ प्रमाणविषयत्वमेव प्रमेयत्वं । ८ अप्रमेय । ९ गगनादौ हेतौ । १० कथंचिदभिन्नस्यैव । । ११ निरपेक्षत्वात् । १२ घटः पटो न भवति पटो घटो न भवतीति व्यावर्तकस्याभावस्य भावात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86