Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 58
________________ परोक्षप्रमाणस्य निर्णयः । पेक्षयोऽपि तस्यापि तदवयवत्वाविशेषात् । कुतस्तर्हि तस्यासिद्धत्वमिति चेत्, तर्हि स्वरूपत एवानिर्णयाद्भवतु । स्वरू पासिध्दत्वादेवायमहेतुरिति चेत् न, शब्दावच्छिन्नस्यानित्यत्वस्य साध्यत्वात् । न च तस्य हेतुत्वं अनित्यमात्रस्य तत्वात् , तंत्र च मीमांसकस्याप्यविवादात्, अन्यथा घटादावपि तदभावापत्तेः । कथं पुनः शब्दानित्यत्वाभावे तन्मात्रस्यानुपपत्तिर्यतस्तदनित्यत्वे तस्य हेतुत्वमिति चेत् न, शब्दवत्तदभावेऽपि घटादेर्वस्तुत्वाव्याघातात्, तद्वस्तुत्ववच्छब्देऽप्यनित्यत्वसामान्यस्यापि तद्विशेषेऽन्यथाऽनुपपत्तिमत्त्वादुपपन्नमेव हेतुत्वम् । एवमपि न त्रित्वमेवासिद्धस्याश्रयासिद्धस्यापि भावात् । तद्यथा-द्रव्यमाकाशं गुणाश्रयत्वादित्याकाशासत्ववादिनं बौद्धं प्रत्यस्याश्रयत्वासिद्धत्वोपपत्तरिति चेत् न, आश्रयवत्स्वरूपस्यासत्वे स्वरूपासिद्ध एवांतर्भावात् , सत्वे चान्यथानुपपत्ती गमकत्वस्यान्यथा च व्यभिचारित्वस्यैवोपपत्तेर्भागासिध्दस्य तर्हि भावान त्रित्वमसिध्दस्य । तद्यथा-चेतनास्तरवः स्वापा १ अन्यथेति शेषः। २ साध्यरूपस्य साधनस्य । ३ तटस्थो ब्रूते । । विशिष्टस्य । ५ शब्दस्यैव नाभ्युपगम्यते नित्यत्वं नान्यत्र। ६ अनित्यत्वमात्रविवादविशेषात् । ७ शब्देनित्यत्वमेव वस्तुत्वमिच्छतां घटादावप्यनित्यत्वमंतरेण वस्तुत्वमिष्यतां तथाचानित्यमात्रमवलोकेन सिद्धयति, अन्यथाऽनुपपत्तिः प्रतिपादिता भवतीत्यत्रावगंतव्यम् । ८ शब्दवदिति, यथा शब्दस्यानित्यत्वाभावे. ऽपि वस्तुत्वमुपपन्नं तथा घटादेरपि, अनित्यत्वाभावेऽपि वस्तुत्वमव्याहतमिति वस्तु किमप्यनित्यं न स्यात्, न चैवं ततः कारणाद्वस्तुत्वस्य घटादावनित्यत्वेन व्याप्तत्वात् , वस्तुत्ववदिति वस्तुत्वसामान्यस्य विशेषानित्यत्वव्यवस्थापकतदनित्यत्वसामान्यस्य तद्विशेषे नित्यविशेषेऽन्यथानुपपत्तिमत्त्वादुपपन्नमेव हेतुत्वम् । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86