Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 55
________________ प्रमाणनिर्णये नानुपकांत निर्णयं तत्वज्ञानं नाम बालोन्मत्तादिज्ञानवत् । तन्न व्यभिचारकल्पनमत्र । न भविष्यति मुहूर्तान्ते शकटोदयः कृत्तिकोदयानुपलब्धेरिति पूर्वचरानुपलब्धिः । मुहूर्त्तात् प्राक् नोदगाद्धरणिः कृत्तिकोदयानुपलब्धेरिति उतरचरानुपलब्धिः । एवमन्यान्यपि विविधिप्रतिषेधलिंगानि प्रतिपत्तव्यानि । ५० यदि तत्प्रभवमनुमानं, प्रमाणमेव तर्हि, कस्यचित्कथं तस्य तदाभासत्वमपीति चेत्, स्वार्थव्यवसायवैकल्यात् प्रत्यक्षवत् । यते हि प्रत्यक्षस्य तद्वैकल्यं क्वचिदव्युत्पत्याऽऽत्मनः, क्वचित्संशयात्मनः, क्वचिद्विपर्यासात्मनञ्च, तस्य तत्र प्रतीतेः । तद्प्यंतरंगावरणोदयाद्वहिरंगादिंद्रियदोपादाशुभ्रमणादेरपि । तद्वदनुमानेऽपि । तत्राप्युक्तस्यांतरंगस्य बहिरंगस्य च हेत्वाभासादे - स्तद्धेतोर्भावात् । " तत्र त्रिविधो हेत्वाभासः, असिद्धानैकांतिकविरुद्ध विकल्पात् । असिद्धोऽपि त्रिविध एव स्वरूपाज्ञातसंदिग्धासिद्धविकल्पात् । तत्र स्वरूपासिद्धो यथा - नित्यः शब्दचाक्षुषत्वादिति । न हि शब्दस्य चाक्षुषत्वं श्रावणत्वस्यैव तत्र भावतः प्रतिपत्तेः । अज्ञातासिद्धस्तु शब्दानित्यत्वे सर्वोऽपि कृतकत्वादिः । न हि तस्य कुतश्चित्परिज्ञानं प्रत्यक्षस्य स्वलक्षणविषयतया सामान्यात्मनि तस्मिन्विकल्पस्य च स्वाकारपर्यवसायित्वेनाप्रवृत्तेः । विकल्पाकार एव सोऽपीति चेत्, कथमिदानीं तस्य पक्षधर्मत्वं शब्दे धर्मिण्यभावात् । तत्र तस्यारोपादिति चेत् न, तत्र तस्येति प्रत्यक्षविकल्पयोरन्यतरेणाप्यशक्यपरिज्ञानत्वात् । अन्यतरा १ अकृततन्निर्णयं । २ तच्छब्देन लिंगग्रहणं । ३ अनध्यवसायात्मनः । ४ आदिशब्देन पक्षाभासादिकं ग्राह्यं । ५ स्वरूपतः । ६ अनुगताकारे । ७ स्वसंविन्मात्रपर्यवसितत्वेन । ८ स्वलक्षणे । ९ विकल्पाकारकृतकत्वादेः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86