Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 30
________________ प्रत्यक्षनिर्णयः । 1 दनमेवा सद्रूपस्येति न प्रत्यक्षलक्षणे तद्व्यवच्छेदार्थमभ्रांतग्रहणमुपपन्नम् । स्वयमेवासति तद्वेदने व्यवच्छेदनस्य किंशुके रागार्पणवदनुपपत्तेः । कथं पुनरसतः केशादेराकारार्पणवद्विषयत्वमपी ति चेत्, स्यादयं प्रसंगो यदि तस्य स्वशक्तितो विषयत्वं । न चैवं वेदनसामर्थ्यादेव तद्भावात्तादृशं तत्सामर्थ्यमस्यांतराददृष्टविशेपाद्वाह्यादपि गरलास्वादकामलादेरिति प्रतिपत्तव्यमनुमंतव्यं चेदमित्थम् । अन्यथा क्वचित्कस्यचिदपि व्यामोहस्यानुपपत्त्या तद्व्यवच्छेदार्थस्य शस्त्रस्य वैफल्योपनिपातात् । असदर्थप्रतिवेदनादं परस्य च व्यामोहस्यानुपपत्तेः । ततः स्थितं स्वशक्तितो विषयनियमः संवेदनस्य तत्त्वादसद्विषयनियमवदिति । न कस्याप्यसतः संवेदनं केशादेरपि देशांतरादौ सत एव कॉमलिना प्रतिवेदनादिति केचित् । तन्न । तद्वेदनस्य ग्रंथावस्थिततत्केशादिविषयत्वे विभ्रमत्वाभावापत्तेः । अतद्देशादित्वेन ग्रहणाद्विभ्रमत्वमिति चेत् न, अतद्देशत्वादेस्तत्रासत्वात् । असतोपि तस्य ग्रहणे केशादेरेव किं न स्यांत, यतस्तत्प्रतिपत्तिरसत्ख्यातिरेव न भवेत् । अर्थविषयैव तद्वित्तिस्तदर्थस्य त्वलौकिकत्वात्तत्र विभ्रमाभिमानो लोकस्येति मतं यस्य तस्यापि किमिदं तदर्थस्यालौकिकत्वं ? संमानदेशकालैरप्यन्यैस्तद्दर्शननिमित्ताभावेनीदृश्यत्वमिति चेत्, किं पुनस्तन्निमित्तं यदभावात्तस्यादृश्यत्वं । काचादिरेव कारणदोष इति चेत्, व्याहत " १ प्रामाण्यं व्यवहारेण शास्त्रं मोहनिवर्त्तनमिति वाक्यात् । २ संख्यातिरसत्ख्यातिः प्रसिद्धार्थख्यातिरात्मख्यातिर्विपरीतार्थख्यातिः स्मृतिप्रमोष इत्येवंरूपस्यापरस्येति भावः। ३ भवतीति शेषः । ४ पुंसा । ५ सांख्याः । ६ यथार्थस्थित । ७ तथा च न कस्याप्यसतः संवेदनमित्यादि न स्यात् । ८ परः प्राह । ९ पुंभिः । १० केशादिदर्शन । ११ विषयस्य । १२ केशादेः । Jain Education International २५ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86