Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 47
________________ ४२ प्रमाणनिर्णये दिनियमकल्पनमुपपन्नम् । अतेन्नियतस्यापि साध्याविनाभावनियमविषयस्यानेकस्याभावात् । संक्षेपेण तु तद्भिद्यमानं द्विधा भवति, विधिसाधनं प्रतिषेधसाधनं चेति । विधिसाधनमपि द्वेधा, धर्मिणस्तद्विशेषस्य चेति । धर्मिणो यथा; संति बहिरर्थाः साधनदूषणप्रयोगादिति । कैथं पुनरतो भावधर्मिणो बहिरर्थस्य साधनं ? कैथं च न स्यात् ? अस्य तद्भावधर्मत्वे तद्वदसिद्धत्वापत्तेस्तदभावधर्मत्वे चातस्तदभावस्यैव सिद्धेर्विरुद्धत्वोपनिपातात् तदुभयधर्मत्वे च व्यभिचारप्रसंगादिति चेन्न, प्रत्येको भयधर्मविकल्पविकलस्यैवास्याभ्यनुज्ञानात् । कथमेवं तस्य बहिरर्थभावं प्रत्येव लिंगत्वं न तद्भावं प्रत्यपीति चेन्न, तत्रैव तस्याविनाभावनियमाद्धर्मिधर्मस्यापि कृतकत्वादेरनित्यत्वादौ तत एव गमकत्वोपपत्तेर्न धमिधर्मत्वमात्रेणैकशाखाप्रभवत्वादावपि तदुपनिपातेनातिप्रसंगापत्तेः । तंत्र साधनं नीलादेः संवेदनत्वसमर्थनं दूषणं बहिरर्थत्वनिषेधनं तयोः प्रयोगः प्रकाशनं" नीलादि: संवेदनात् व्यतिरिक्तस्तद्वेद्यत्वात् तत्सरूपवदित्यादिः, न जड़ो नीलादिः प्रतिभासमानत्वात् सुखादिवदित्यादिश्च कथं पुनरस्य बहिरर्थाभावेऽनुपपत्तिरिति चेत्, अस्य बहिरर्थविशेदेव । न हि तदभावे तद्विशेषस्य संभवः वृक्षाभावे शिंशपाभा Jain Education International १ न विद्यते त्रैविध्यादि नियतं यत्र । २ साधनं । ३ परः प्राह । ४ जैन, आह । ५ " असिद्धो भावधर्मत्वे व्यभिचाभयाश्रिताः । विरुद्धो धर्मो भावस्य सा. सत्ता साध्यते कथं " इति कारिकां मनसि धृत्वा परः प्राह । ६ भाव, अभाव । ७ भावाभावश्च । ८ धर्मित्वाभावे । ९ अन्यथा, सर्वफलानि पक्वानि धर्माणि एकशाखाप्रभवत्वात् । १० भावं प्रत्यविनाभावाभावं समर्थयते परः । ११. उन्नारणं । १२ प्रयोगस्य बहिरर्थविशेषत्वं शब्दरूपत्वात्प्रतिपत्तव्यं । ,, For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86