Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 50
________________ परोक्षप्रमाणस्य निर्णयः। व्यापकत्वं चाऽस्य घटवदनित्ये सर्वत्र विद्युद्वनकुसुमादावपि भावात् । तदव्यापकत्वं तु तत्रैव साध्ये प्रयत्नंतरीयकत्वं, तस्य व तत्वं घटवदनित्येऽप्यन्यत्र जलधरध्वानादावभावात् । धर्मिणो भिन्नेमाप लिंगमनेकधा, कार्यकारणमकार्यकारणं वेति । कार्य धूमः पर्वतादौ हि पावकस्य, व्याहारादि शरीरे जीवस्य कारणं, मेघोन्नतिविशेषो वृष्टः, अभ्यवहारविशेषस्तृप्तः। कारणस्य कथं लिंगत्वं ? प्रतिबंधवैकल्याभ्यां तस्य कार्यत्वानियमादिति चेत् , सत्यम् ; यदि कारणमात्रस्य लिंगत्वं, न चैवम्, अन्यथाऽनुपपत्तिनियमनिर्णयवत एव तस्य तत्त्वोपगमात्तथाविधत्वं च प्रसिद्धमेव मेघोन्नतिविशेषादौ व्यवहारिणामिति निरवयं तस्य लिंगत्वम् ।। __ अकार्यकारणं पुनधा,साध्येन समसमयं विभिन्नसमयं चेति। समसमयं रसादि रूपादेः, शरीराकारविशेषो जीवस्याप्रतिपद्यते हि गाढमूर्छाद्यवस्थायां तद्विशेषदर्शनाज्जीवत्ययमिति प्रतिपत्तारः । कथमन्यथा तदवस्थापनोदाय तेषां चिकित्साविधावुपत्रकम इति । विभिन्नसमयं पुनरद्य भास्करोदयः उत्तरेधुस्तदुदयस्य । नाऽवश्यंभावस्तदुदयस्य कदाचित्पतिव्रतया तत्प्रतिबंधस्य श्रवणादिति चेन्न, जनश्रुतिमात्रविश्वासेन व्यभिचारकल्पनस्यायोगात्; अन्यथा पुत्रस्य पितृप्रभवत्वानुमानमपि न भवेत्, द्रोणवदपितृकस्यापि तद्भावस्य संभवात् । अस्ति हि तत्रापि जनश्रुतिः “ द्रोणः कलशादुत्पन्न" इति । कथमेवमप्युत्तरोदयं प्रत्यकार्यत्वमस्येति चेत्, ततः प्रागेव भावात् । तथाऽप्युत्तरस्य १ अर्थातरं। २ सौगतः।३ सामर्थ्यप्रतिबंधकारणांतरवैकल्याभ्यां । ४ निराकरणाय । ५ ज्ञात्वारंभ उपक्रमः । ६ उत्तरेयुः भास्कर उदेष्यति अद्य भास्करोदयात् । ७ शांडिल्या । ८ अयं पितृप्रभवः पुत्रत्वात् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86