Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 40
________________ परोक्षप्रमाणस्य निर्णयः । तदस्मादुन्नतमवनतं स्थूलमल्पं ह्रस्वं दीर्घमित्यादिज्ञानानामुपमानत्वस्याभावात् कथं न प्रमाणांतरत्वं ? प्रतिपन्नस्यैवापेक्षोपनीतेनोन्नतत्वादिना परिवृत्त्य परिज्ञानेन प्रत्यभिज्ञानत्वस्यैव तत्रोपपत्तिरिति चेत्, सिद्धमुपमानस्यापि प्रत्यभिज्ञानत्वं, तेनाऽपि तथा तस्य तादृशेनैव सादृश्यादिना परिज्ञानात् । भवतु तर्हि गौरव गवय इत्यागमाहितसंस्कारस्य पुनर्गवयदर्शने सोऽयं गवयशब्दस्यार्थ इति शब्दतदर्थसंबंधपरिज्ञानमुपमानमिति चेत् न, तत्राऽपि सामान्यतः प्रागागमा वगतस्यैव पुनः सन्निहितविशेष विशिष्टतया परिज्ञानतः प्रत्यभिज्ञानत्वस्यैवोपपत्तेः । अन्यथा षट्टिः चरणैश्चंचरीकः, क्षीरनीरविवेचनचतुरचंचुर्विहंगमो हंसः, एकविषाणो मृगः खड्गीतिवचनोपजनितवासनस्य पुनस्तद्दर्शने सोऽयं नंचरीकादिशब्दस्यार्थ इति वाच्यवाचक संबंधपरिज्ञानस्याप्युपमानवद्प्रत्यभिज्ञानत्वे प्रमाणांतरस्य प्रमाणचतुष्टयनियमव्याघातविधायिनः प्रसंगात् । तन्न प्रत्यभिज्ञानादन्यदुपमानमित्युपपन्नं प्रत्यभिज्ञानतयैव तस्यापि प्रामाण्यम् ॥ तर्कश्चेत्थमेव संभवति नानित्यमिति व्याप्तिपरिज्ञानात्मा, प्रमाणं, विना तेन लिंगसाध्याविनाभावस्य दुरवबोधत्वात् । न हि प्रत्यक्षतस्तस्यावबोधस्तेन संनिहितविषयवलभाविना देशकालानवच्छेदेनं तस्यानवगमात् । तद्वच्छेदेनावगतात्तु ततो नानु . Jain Education International ३५ १ परिज्ञातवस्तुनः। २ नैयायिको वदति । ३ पुंस इति शेषः । • वस्तुनः । ५ प्रत्यक्षानुमानोपमानागमभेदात् । ६ सादृश्याभावेनोपमानेऽप्यंतर्भावाभावात्, प्रसिद्धसा धर्म्यात्साध्यसाधनमुपमानमिति स्वयमेवाभिधानात् । ७ अवलंबनसामर्थ्याव संबद्धं वर्तमानं च चक्षुरादिना गृह्यत इति वचनात् । ८ अनियमेन । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86