Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 44
________________ परोक्षप्रमाणस्य निर्णयः । किंलक्षणं तत्तर्हि साधनं यतोऽनुमानमिति चेत्, पक्षधर्मत्वं सपक्ष एव सत्त्वं विपक्षे वाऽसत्त्वमेवोत त्रिलक्षणमिति केचित् । तदसत् । एवं सत्युदेष्यति शकटं कृत्तिकोदयादित्यस्य पक्षधर्मत्वाभावेनागमकत्वोपपत्तेस्तदभावश्च शकटे धर्मिण्युदेष्यत्वे साध्ये कृत्तिकोदस्य हेतोरभावात् । नायं दोषः, कालस्य धर्मित्वात्तत्र च तद्भावात; तथा च प्रयोगो मुहूर्तपरिमाणः कालः शकटोदयवान् भवति कृत्तिकोदयत्वात् प्रवृत्ततत्कालवदिति चेन्न, एवमप्य. यस्कारकुटीरधूमेन पर्वतपावकस्यानुमानापत्तेस्तदुभयगर्भस्य विस्तारिणः पृथिवीतलस्य धर्मित्वेन हेतोः पक्षधर्मत्वोपपत्तेः । नायं दोषस्तस्य तदविनाभावनियमाभावादिति चेत्, न तार्ह कालादिधर्मिकल्पनयाऽन्यत्रापि पक्षधर्मत्वोपपादनेन किं. चित्सतोऽपि तस्य गमकत्वं प्रत्यनंगत्वात् । नाऽपि सपक्षे सत्वेन, विनाऽपि तेने केवलव्यतिरेकिणो गमकत्वनिवेदनात् । नाऽपि विपक्षासत्वेनासद्विपक्षस्यापि सर्वमनेकांतात्मकं सत्वा. दित्यादेः स्वसाध्यप्रत्यायनसामर्थ्यस्याग्रे निरूपणात् । नाऽपि पक्षधर्मत्वादित्रयेण, सत्यपि तस्मिन् सः श्यामस्तत्पुत्रत्वादितर तत्पुत्रवदित्य तत्वस्यागमकत्वात् । अस्ति पत्र तत्रितयं धर्मिणि सपक्षे च श्यामे तत्पुत्रत्वस्य भावादश्यामादन्यपुत्रार्दपवृत्तेश्च !!! स्यान्मतं न पक्षधर्मत्वादिकं साक्षालक्षणं लिंगस्याविना भावस्यैव तथा तत्वात्तस्य तु तत्रैव भावात् । तदपि तल्लक्षण १ बौद्धाः । २ मुहूर्तपरिमाणकाले धर्मिण्यपि । ३ तदुभयगर्भ विस्तारि भूतलं पर्वताग्निमत् अयस्कारकुटीरधमवत्वादिति । ४ उदेष्यति शकटं कृत्तिकोदयादि. त्यत्राऽपि । ५ सर्व जीवच्छरीरं सात्मकं प्राणादिमत्वात् व्यतिरेके भस्मवदित्यस्या सर्वे क्षणिक सत्वात् तत्र खराविषाणवदित्यस्य । ज्ञापन । ७ अनुमाने । ८ व्यावृत्तेः। ९ तस्मिन्सत्येव । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86