Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 34
________________ प्रत्यक्षनिर्णयः । मावधिज्ञानावरणवयितरायक्षयोपशमविशेषापेक्षया प्रादुर्भावो रूपाधिकरणभावगोचरो विषदावभासी प्रत्ययविशेषः । सच त्रिविधः, देशावधिपरमावधिसर्वावधिविकल्पात् । तत्र देशावधे - मतिज्ञानविषयस्यासर्व पर्यायद्रव्यलक्षणस्यानंतैकभागः, तदनंतैकभागः परमावधेः, तद्नंतैकभागश्च सर्वावधेविषयः प्रतिपत्तव्यः । विशुद्वयतिशय पूर्वस्मादुत्तरोतरस्येति । तथा मन:पर्ययोऽपि संयमै कार्थसमवायी तदावरणवीर्यान्तरायक्षयोपशमविशेषनिबन्धनः परमनोगतार्थसाक्षात्कारी प्रत्ययः । सोऽपि द्वेधा, ऋजुमतिविपुलमतिश्चेति । तत्र गुणमनोवाक्कायैर्निर्वर्तितोऽर्थः पूर्वस्य, प्रगुणैरितरैर्वा मनोवाक्कायैर्निर्वर्तितो निर्वर्तितञ्चार्थः पश्चिमस्य विषयः । सूक्षमतया तु सर्वावधिविषयानंतैकभागे पूर्वस्य तदनंतैकभागे परस्य निबंधः । तथा विशु यतिशयविशेषवत्त्वादप्रतिपातित्वाच्च पूर्वस्मादुत्तरस्य विशेषो वेदितव्य । इति व्याख्यातं विकलमतींद्रियप्रत्यक्षम् । २९ सकलं तु तत्प्रत्यक्षं प्रक्षीणाशेषघातिमलसेमुन्मीलितं सकलवस्तुयाथात्म्य वेदिनिरतिशयवैशद्यालंकृतं केवलज्ञानं । तद्वतः पुरुषस्य सद्भावे किं प्रमाणमिति चेत् । इदमनुमानं—अस्ति सर्वज्ञो निर्वाधप्रत्ययविषयत्वात् सुखादिनीलादिवत् । न च तत्प्रत्यये विवादस्तन्निषेधवादिनोऽपि तद्भावादन्यथा तन्निषेधस्यैव तद्विषयपरिज्ञानाभावेनासंभवप्रसंगात् । निर्वाधत्वमपि तस्य प्रत्यक्षादीनामन्यतमस्यापि तद्वाधकत्वासंभवात् । तद्बाधकरवं नाम तद्विषयासत्वनिवेदनमेव । तच्च प्रत्यक्षेण यदि क्वचित् Jain Education International १ पदार्थः २ असर्व पर्यायं द्वव्यं लक्षणं यस्येति समासो विधेयः ३ सूक्ष्मरूपतया । ४ भवतीति शेषः । ५ आत्मलक्षणार्थे । ६ ऋजु । ७ परेषां । ८ निष्पन्नः ९ वृत्रैः । १० प्रवृत्तिः । ११ प्रादुर्भूतम् । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86