Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 18
________________ प्रमाणलक्षणनिर्णयः। स्ततो दर्शनात् । न चापरोबाधप्रकार इति चेन्न, तद्विषयासत्त्वज्ञापनस्यैव वाधकत्वात, तस्य च मरीचिकाप्रत्यये सति नेदं तोयं किंतु मरीचिका इत्याकारस्यावलोकनात् । कर्तव्यश्चैवमभ्युपगमो ऽन्यथाबांधासत्त्वस्यापि अवबोधनानुपपत्तेः, न समानविषयेणेत्यादिविचारस्य वैयोपनिपातात्। तन्न विपर्ययस्य प्रामाण्यमसम्यक्त्वात्, एवमव्युत्पनसंशययोरपि तत्रापि यथातत्त्वनिर्णयस्य सम्यक्त्वस्याभावात् । ततस्तोयादावेव तत्प्रत्ययस्य तद्भावःतस्य चाभ्यासदशायां स्वत एवावगमोऽन्यथा तु पद्मगन्धोदकाहरणादेलिङ्गविशेषात् । न चैवं लिङ्गप्रत्ययसम्यक्त्वस्याप्यन्यतो लिङ्गादवगमे ऽनवस्थानं दूरानुसरणेऽपि कस्यचिदभ्यस्तविषयस्य तत्प्रत्ययस्य संभवात् । ततः सुपरिज्ञानत्वात् ज्ञानेषु सम्यक्त्वस्यैवोपपनं, इदं सम्यग्ज्ञानमेव प्रमाणं अन्यथा तदनुपपत्तेरिति । देवस्य मतमुद्वीक्ष्य विचारज्ञानिनां प्रभोः । मयाऽभ्यधायि संक्षिप्य प्रमाणस्येह लक्षणम् ॥१॥ इति श्रीमद्वादिराजसूरिप्रणीते प्रमाणनिर्णये प्रमाणलक्षणनिर्णयः॥ १ निवेदनस्य । २ प्रतियोगिभूतबाधज्ञानाभावे तदभावज्ञामानुपपत्तेः । ३ अनध्यवसायः । ४ न तु मरीचिकादौ तत्प्रत्ययस्य तद्भावः । ५ अनभ्यासदशायां । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86