Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 23
________________ ૬૮ प्रमाणनिर्णये तत्प्रसङ्गात् । ततो युक्तमविसंवादवैकल्याद्दर्शनमप्रमाणमिति । तदुक्तम् । विषदर्शनवत् सर्वमज्ञस्य कल्पनात्मकम् । दर्शनं न प्रमाणं स्यादविसंवादहानितः ॥ १ ॥ इति प्रामाण्याभावे च दूरतः प्रत्यक्षत्वं, तस्य तद्विशेषत्वेन तदभावेऽनुपपत्तेरतः प्रत्यक्षाभासं तदिति प्रतिपत्तव्यं । भवतु तर्हीन्द्रियार्थयोः सन्निकर्षः प्रत्यक्षं, वस्तुसाक्षात्करणस्य सर्वत्र तत एव भावादिति चेन्न । तस्याचेतनतया वस्तुप्रमितौ साधकतमत्वानुपपत्त्या प्रामाण्यस्यैव प्रतिक्षेपात् । न च तत एव साक्षात्करणं विषयस्य तद्भावेपि चक्षुषा पटस्य तत्प्रतिपत्तेः । अस्त्येव चक्षुषस्तद्विषयेण सन्निकर्षः, प्रत्यक्षस्य तत्रासत्वेऽप्यनुमानतस्तदवगमात् । तच्चेदमनुमानं; चक्षुः सन्निकृष्टमर्थं प्रकाशयति बाह्येन्द्रियत्वात्त्वगादिवत् । इतिचेत्; अत्र न तावद्गोलकमेव चक्षुस्तंद्विषयसन्निकर्षप्रतिज्ञानस्य प्रत्यक्षेण बाधनात्तेन तत्र तदभावस्यैव प्रतिपत्तेर्हेतोश्च तद्वाधितकर्मनिर्देशानन्तरं प्रयुक्ततया कालात्ययापदिष्टतोपनिपातात् । न तन्मात्रं चक्षुस्तद्रश्मिकलापस्य तत्त्वात्तस्य च रश्मिपरीतं चक्षुस्तैजसत्वात् प्रदीपवदित्यंतस्तैजसत्वस्यापि तैजसं चक्षुः रूपादीनां मध्ये रूपस्यैव प्रकाशकत्वात्तद्वदित्यनुमानतोऽवगमादिति चेत् । किं पुनरत्र चक्षुर्यत्र तैजसत्वं साध्यं ? न गोलकमेव तस्य रूपप्रकाशकत्वासिद्धेः; रॉश्मपरिकल्पनावैफल्यप्रसंगात् । रश्मिपरिकरितमिति चेन्न, तस्याद्याप्य १ अव्यवसायात्मकम् । २ तस्य विषयेण सह सन्निकर्षप्रतिज्ञानस्य, चक्षुः निकृष्टमर्थं प्रकाशयतीति प्रतिज्ञाया इत्यर्थः । ३ विषयकथनपश्चात् । अतोSनुमानात् । ५ तदसिद्धौ तैजसत्वासिद्धिः, तदसिद्धौ च रश्मिपरिकल्पितत्वस्यासिद्धिः । ६ चक्षुः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86