Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 26
________________ प्रत्यक्षनिर्णयः। कल्पनायां वरमप्राप्यकारित्वमेव कल्पितमप्राप्यकारिण एव गोलकस्य प्रतीतेः। ___ न च गोलकं चक्षुस्तद्रश्मिप्रसरस्य तत्त्वादिति चेत्, कथं तर्हि चक्षुरर्थस्य चिकित्साविधेगोलके करणमन्यार्थस्यान्यत्र तदनुपपत्तेः । चक्षुरर्थस्य पादे कथमभ्यङ्गस्य करणमिति चेन्न, पादाभ्यक्तस्य स्नेहस्य तन्नाडीरन्ध्रद्वारेण चक्षुरवातस्य तदुपकारित्वात् । न चैवं गोलकाभ्यक्तस्यांजनादेस्तद्वहिर्गतरश्मिप्रसरावाप्तिस्तदनुपलंभात् । न च शक्योपलंभस्यानुपलब्धिरंन्तरेणाभावं संभवति, तन्न संप्रयोगस्य संनिकर्षार्थत्वम् । ___ अनुकूलार्थत्वमिति चेत्, स्यान्मतं।ग्रहणानुकूल्येनावस्थानमेव विषयविषयिणोः संप्रयोग इति तन्न, विषयानुकूल्यग्रहणं प्रत्यनुपयोगात् । अन्यथा तद्रहितस्य द्विचंद्रादेरग्रहणप्राप्तेः । असतस्तद्रहितस्यापि ग्रहणं न सत इति च विभागपरिकल्पनस्य निर्बन्ध. नत्वात् । तन्न संप्रयोगस्यापि प्रत्यक्षत्वं । __ भवतु व्यवसायस्यैव विषयाकारपरिणतिविशेषात्मनो बुद्धिव्यापारस्य प्रत्यक्षत्वं, प्रतिविषयाध्यवसायो दृष्टमितिवचनादू, दृष्ट मितिच प्रत्यक्षस्याभिधानादिति चेन्न। विषयाकारपरिणामे बुद्धेर्दपणादिवदेव तस्याः प्रामाण्यान्मूर्त्तत्वेनाचेतनत्वापत्तेः। अचेतनैव बुद्धिरनित्यत्वात्कलशादिवदिति चेत्। कथमिदानी दर्पणादिवदेव तस्याःप्रामाण्यं यतस्तव्यापारविशेषस्य प्रत्यक्षत्वं, तस्य तद्विशेषत्वेन तदभावेऽनुपपत्तेः । चेतनसंपर्काचेतनैव बुद्धिरिति चेत् । कुतो न दर्पणादिरप्येवं? चेतनस्य व्यापकत्वेन तत्संपर्कस्य तत्रापि भावात् । बुद्धावेव तद्विशेषस्य भावादिति चेत् । स कोऽपरोऽन्यत्र १ चक्षुनिमित्तस्य । २ अभावं विनेति भावः । ३ जैनो वदति । ४ ग्रहणयो. ग्यतया। ५ अर्थानिमित्तकत्वात् । ६ निःकारणत्वात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86