Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 10
________________ प्रमाणलक्षणनिर्णयः। प्रतिपत्तिः? स्वत एव तदुपपत्तेरिति चेत् । सत्यमस्ति प्रकाशो वीलादेः स यदि स्वत एव भवति तस्य बोधरूपत्वं । न चैवं, परत एव तद्भावात् । ततोऽपि भवतस्तस्य बोधत्वमेव रूपमिति चेन्न, बोध्यत्वस्यैव तेदूपत्वात् । किं पुनरिदं बोध्यत्वमर्थस्य, किं पुननिस्यापि बोधकत्वं ? परनिरपेक्षमपरोक्षत्वमिति चेत् । अर्थस्यापि परापेक्षं तदेव बोध्यत्वं किं न स्यात् । परस्यैवार्थप्रतीतिवेलायामप्रतिवेदनादिति चेन्न । नीलैं वेद्मि पीतं वेद्मीति नीलादेरन्यस्यैव तद्वेदनस्यवानुभवनात् । अनन्यत्वे हि नीलमित्येव वेझीत्येव वा स्थानोभयमस्ति चोभयं ततोऽनुभवप्रसिद्धत्वानीलादेस्तत्संवेदनान्यत्वस्य कथमप्रतीतिविकल्प एवायं कश्चिन्नीलं वेझीति नानुभवो न च ततः क्वचिदन्यत्वनिश्चयो वासनामात्रनिबन्धनत्वेन तस्य विप्लवत्वात्, अन्यथा केशादेरपि तद्वेदनस्य ततस्तत्प्रसङ्गात् । केशादिकं वेद्मीति तैमिरिकस्य तत्रापि विकल्पप्रादुर्भावात् भवतु, इति चेन्न । केशादेवहिरभावात् ! बहिरसत एव ततस्तद्वेदनस्यान्यत्वमिति चेन्न । तदप्रतिभासे तत इति तद्वेदनस्येत्यप्यनुपपत्तेः । न चासतःप्रतिभास इति चेन्न । विभ्रमसामर्थ्यात् असतोऽपि तदुपपत्तेः अन्यथा विकल्पे नीलतद्वेदनान्यत्वस्याप्यप्रतिभासोत्पत्तेः, असत्त्वाविशेषात् । सत्यम् । विकल्पस्याऽपि न तप्रतिभासित्वं स्वसंविन्मात्रपर्यवसितत्वात्, विकल्पान्तरमेव तु तत्र तत्प्रतिभासित्वमवकल्पयतीति चेन्न । तेनाऽप्यसतस्तस्यान १ परतो भवत्प्रकाशरूपत्वात् । २अर्थाद्भिन्नस्यैव।३ जैनो वक्ति।४ व्यभिचारात्। ५ विकल्पात् क्वचिदन्यत्वनिश्चये । ६ अन्यत्वप्रसंगो भवतु । ७ असत्त्वात् । ८ असतो ऽप्रतिभासो बा प्रतिभास इति विकल्पयन्नाह । ९ द्वितीयविकल्पो घटते सौगतबिशेषे । १० कर्तृतापन्नं। ११ स्वस्मिन्नविद्यमानस्य । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86