Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

Previous | Next

Page 12
________________ प्रमाणलक्षणनिर्णयः । 2 चक्षुरादिकात् ग्राहकाकार:, तथा तत्समानकालो ग्राह्याकारोपीति तत्राऽपि सभासमवायिनीं चक्षुरादेर्बहुत्वात् तज्जन्मनो विकसितकुवलयदलनीलच्छायानुवर्त्तिनो नर्त्तकीरूपस्यापि बहुत्वेन भवितव्यम् । नचैवं तद्पैकत्वे सर्वेषां तेषामेकवाक्यताप्रतिपत्तेः । व्यामोहादेव कुतश्चित्तत्र तेषामेकवाक्यत्वं; वस्तुतो नानैव तद्रूपमितिचेत् । कोशपानादेतत्प्रत्येतव्यं न प्रमाणतः । कुतश्चिदपि तदभावात् कुतश्चेदमवगतं ग्राह्याकारोऽपि चक्षुरादेरिति ग्राहकाकारवत् । तत्रापि तदन्वयव्यतिरेकानुविधानस्य भावादिति चेत्, कुतः पुनस्तद्भावस्यावगतिः ? न प्रत्यक्षात्, " न हि प्रत्यक्षसंवित्तिरन्वयव्यतिरेकयोरिति ” स्वयमेवाभिधानात् । नाप्यनुमानात्प्रत्यक्षाभावे तत्पूर्वकत्वेन तस्याप्यसंभवात् । तद्वासनामात्रजन्मनो विकल्पात्तदवगतौ वा अवास्तव एव तद्भाव इति न ततो नीलादेरपरोक्षतया चक्षुरादेरुत्पादः शक्यव्यवस्थापनः । ततो नीलादिव्यतिरिक्तवेदनविषयतयैवा परोक्षभावमनुभवन्नर्थ एवेत्युपपन्नं तद्विषयतया सम्यग्ज्ञानस्यार्थविषयत्वम् । भवतु तद्विषयत्वमेव तस्य न स्वविषयत्वं स्वात्मनि क्रियाविरोधात् छिदिक्रियावत्तथाहि । - विरुद्धा ज्ञानस्य स्वात्मनि प्रमितिः क्रियात्वात् खड्गात्मनि छिदिक्रियावत्; न हि खड्गः स्वात्मानं छिन्दन्नुपलभ्यत इति चेत्, न क्रियात्वमात्राच्छिदेः खङ्गात्मना विरोधोऽपि तु तदात्मनो भावरूपत्वात्; छिदेश्च प्रध्वंसविशेषत्वेन अभाव स्वभावत्वात् । भावाभावयोश्च परस्परपरिहारोपपत्तेः । नचैवं ज्ञानात्मतत्प्रमित्योर्भावेतर स्वरूपत्वं येन तयोरन्योन्यपरिहारेणावस्थानाद्विरोधपरिकल्पनमतो न विरोधादस्वप्रतिपत्तिकत्वं ज्ञानस्य शक्यव्यवस्थं कथं चास्वप्रमितिरूपत्वे १ ज्ञाने ज्ञायते । २ पुरुषाणामिति शेषः । ३ नैयायिको वदति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86