Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 14
________________ प्रमाणलक्षणनिर्णयः। वार्थज्ञानमिति चेन्न । अनात्मविषयत्वे तस्य तद्वेदनत्वानुपपत्तेः, आत्मविषयत्वे च हेतुप्रतिज्ञयोर्विरोधात् । तस्मादन्यदेव तदेकार्थसमवेतमनन्तरं तद्वेदनमिति चेन, तस्याद्याप्यसिद्धत्वात् । अर्थज्ञानं ज्ञानान्तरवेद्यं वेद्यत्वात् कलशादिवदित्यत एवानुमानात्तत्सिद्धिारति चेन्न, परस्पराश्रयापत्तेः, तत्सिद्धावनुमानमनुमानाच्च तसिद्धिरिति । अन्यतस्तत्सिद्धिरित चेम्न। अनुमानस्य वैयर्थ्यप्रसंगात्।किंवा तदन्यत् ? प्रत्यक्षमिति चेन्न, तस्याप्यव्यतिरिक्तस्यानभ्युपगमात् । व्यतिरिक्तमिति चेत्, किमयं नियमः, सति विषये तवेदनमवश्य. मिति । तथा चेन्नार्थज्ञानवेदनवत्तवेदनेऽप्यन्यत्तद्वेदनं तत्राऽप्यन्यदित्यासंसारं तद्वेदनप्रबंधस्यैव प्रवृत्तेर्न विषयान्तरसंचारो वेदनस्य भवेदिति कथमनुमानम् । धर्मिज्ञानतज्ज्ञानप्रबंधस्या परमे हेतुदृष्टान्तयोरनुपपत्तेर्माभूदयं नियम इति चेन्न तर्हि धर्मिण्यपि वेदननियम इति कथं तस्य तद्वद्यत्वस्य हेतोर्वा सिद्धिरित्यसंभव एवानुमानस्य भवेत् । ___ अथ वैद्यत्वमर्थज्ञानस्य न विशिष्टमुपादीयते, तेंदतत्कृतत्वेन अवशिष्टस्यैव तस्य हेतुत्वादिति चेत्, कथं तस्यानात्मविषयत्वे साध्ये हेतुत्वं ? तेनैव कलशादौ तस्य व्याप्तिदर्शनादिति चेत्, न, व्याप्तिज्ञाने आत्मविषयत्वेनापि तस्य तद्दर्शनात्, न हि प्रादेशिकी व्याप्तिः। साध्यप्रतिपत्तेनिमित्तं तत्पुत्रत्वादावपि १ विरुद्धत्वादिति भावः । २ अर्थज्ञानात् । ३ तेन सहैकस्मिन्नर्थे समवेतं । ४पश्चादुत्पन्न । ५ तृतीयज्ञानात् । ६ द्वितीयज्ञानाव्यतिरिक्तस्य । ७ कुतः स्वप्रतिपत्तिप्रसंगात् । ८ प्रभवति न वेति शेषः । ९ प्रथमज्ञानलक्षणे । १० अनवस्थाने। ११ अन्यज्ञानकृतत्वेन । १२ साध्यस्य । १३ प्रदेशे भवा प्रादेशिकी । Jain Education International For Private & Personal Use Only ___www.jainelibrary.org

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86