Book Title: Pramana Nirnaya Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri Publisher: Manikchand Digambar Jain Granthamala SamitiPage 11
________________ प्रमाणनिर्णये वकल्पनात् । पुनर्विकल्पान्तरात्तस्य तदवकल्पकत्वे चानवस्थापत्त्या नीलतद्वेदनविवेकविकल्प एव न भवेत् । न चैवं, तस्य तस्य प्रतीतेस्ततो न सङ्गन्तमिदं, विकल्पो ग्राह्य ग्राहकोल्लेखेनोत्पत्तिमान्, सोऽपि स्वरूपे ग्राह्यग्राहकरूपरहित एव अपरेण तथा व्यवस्थाप्यत इति। ततो न केशादेरपि तद्वेदनस्यानर्थान्तरत्वं यतस्तन्निदर्शनेन नीलादेरपि तद्वेदनस्य तत्त्वमवकल्प्येत । ततो बहिरेव तद्वेदनान्नीलादिबहिरर्थः । तत इदमप्यनुपपन्नम् । संवेदनेन बाह्यत्वमेतोऽर्थस्य न सिद्ध्यति । ___ संवेदनाद्वहिर्भावे स एव तु न सिद्धयति ॥ इति संवेदनेनैव नीलादेस्तद्वहिर्भावस्योक्तया नीत्या व्यवस्थापनात् । यदि संवेदनाद्बहिरेव नीलादिः कथं तस्य वस्तुसत्त्वं ? तैमिरिककेशादिवदिति चेत्, तत्केशादेरापि न संवेदनबहिर्भावेनावस्तुसत्त्वमपि तु बाधकत्वात् । न चेदं प्रसिद्धे नीलवस्त्रादावस्तीति । वस्तु सन्नेवाऽयं कर्तव्यश्चैवमभ्युपगमः । अन्यथा नीलादेबहीरूपत्वेनेव संवेदनस्यापि प्रतिभासमानत्वेन तैमिरिककेशादिना साधादवस्तुसत्त्वापत्तेः ।अतः संवेदनबहिर्भावादबाधकत्वेन वस्तुसत्त्वाच्चार्थ एव नीलादिरवगन्तव्यः । यत्पुनरेतन्मतं । यथैव हि ग्राहकाकारः स्वरूपेणापरोक्षो न ग्राहकान्तरभावात् । तथा तेन समानकालोऽपि नीलादिक इति । तत्र भंवतो यदि तादृशो नीलादिरप्रतिपत्तिविषयः कथं यथैवेत्यादिवचनं प्रतिपाधवत् । प्रतिपत्तिविषयश्चेत्तहि कथं स्वरूपेणाऽपरोक्षत्वं, तस्य भवत्प्रतिपत्तिविषयतया परत एव तदुपपत्तेः । यदप्येतदपरं यथा १तदन्यत्वविकल्पाभावो न च । २अन्यविकल्पेन विकल्पांतरेणेति यावत् । ३अन्यत्वं। ४ हेतुना। ५ न्यायात्। ६ तैमिरिककेशादिवत् । ७ परमार्थसत् । ८ ज्ञायत इति शेषः।९ तव। १० प्रतिपाद्यार्थोऽस्यास्तीति प्रतिपाद्यवत् । ११ त्वज्ज्ञानविषयतया। Jain Education International For Private & Personal Use Only ___www.jainelibrary.orgPage Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86