Book Title: Pramana Nirnaya
Author(s): Rajsuri, Indralal Shastri, Khubchand Shastri
Publisher: Manikchand Digambar Jain Granthamala Samiti
________________
प्रमाणलक्षणनिर्णयः ।
विनिश्चय" इति। व्यवसायरूपा चेत्तर्हि व्यवसायात्तद्व्यवच्छि. त्तिरिति तद्व्यवच्छित्तेरेव तद्व्यवच्छित्तिरित्युक्तं भवति, तच्चानुपपन्नमेव । भेदाऽभावे क्रियाकारकभावस्यानुपपत्तोति चेन्न भेदस्याऽपि भावात् ।
द्विरूपं हि व्यवसायस्वभावसंवेदनं, प्रवृत्तिरूपं निवृत्तिरूपं चेति । नहीदमव्युत्पत्त्यादि निवृत्तिरूपमेव, नीरूपत्वापत्तेः । नाऽपि प्रवृत्तिरूपमेव, स्वरूपादिनेवाऽव्युत्पत्त्यादिरूपेणाऽपि तद्रूपत्वापत्तेः । न चैवमेकान्ततो निवृत्तिरूपतया प्रवृत्तिरूपतया च तस्याऽप्रवेदनात् । अत एवोभयस्वभावे तस्मिन् प्रवृत्तिरूपतया साधकतमस्याव्युत्पत्त्यादिनिवृत्तिरूपतया क्रियाभावस्य भावान्न क्रियाकारकभावस्याऽनुपपत्तिः । कथमेवमपि प्रमितिक्रियायां तत्सहभाविनः संवेदनस्य साधकतमत्वमितिचेन्न । प्रागपि भावात, तत एव संवेदनात्प्रागपि विषयान्तरे प्रमितिक्रियानिष्पत्तेः । अन्यदेव तत्संवेदनं विषयभेदे तद्भेदस्याऽवश्यंभावादिति चेत् । न । युगपदप्येवं प्रसङ्गाव, तथाच कथं सेनावनादिप्रतिपत्तिः ।
न हि करितुरगादेर्धवखदिरादेश्चैकसंवेदनविषयत्वाभावे तत्प्रतिपत्तिः संभवति । युगपद्विषयभेदेऽपि एकमेव संवेदनं, तथा तस्यानुभवादिति चेन्न । क्रमेणापि तथा तदनुभवस्याविशेषात् । परापरसमयव्यातेरनुभवगम्यत्वे कुतो न तस्याऽऽजन्ममरणावधिरप्यनुभव इति चेन्न । यावच्छक्तिकमेवानुभवस्य तत्र व्यापारात् । अन्यथा वर्तमानेऽपि वस्तुनि सर्वत्राऽपि
१ आत्म । २ तथास्त्विति चेत् । ३ अनिश्चयात् । ४ प्रमितेः प्रागपि संवेदनस्य भावात् । ५ यत्पूर्व विषयांतरे प्रमितिक्रियामुपजनयति । ६ युगपदिति विषयभेदात्संवेदनभेदे सति । ७ जनः । ८ अन्यः । ९ विषयभेदेऽप्येकत्वप्रकारेण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 86