Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 30
________________ बौद्धाचार्यश्री दिङ्नागविरचितं सू० [२], तत्र पक्षादिवचनानि साधनम् । पक्षहेतुदृष्टान्तवचनैर्हि प्राश्रिकानामप्रतीतोऽर्थः प्रतिपाद्यत इति । सू० [३], तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धविशेषणविशिष्टतया स्वयं साध्यत्वेनेप्सितः। प्रत्यक्षाद्यविरुद्ध इति वाक्यशेषः। तद्यथाअनित्यः शब्दो नित्यो वेति । सू० [४], हेतुस्त्रिरूपः । किं पुनस्त्रैरूप्यम् ? पक्षधर्मत्वम्, सपक्षे सत्त्वम्, विपक्षे चासत्त्वमेव । कः पुनः सपक्षः, को वा K = खंभातनगरे तपगच्छअमरजैनशालामध्ये विद्यमानः नीतिविजयजैनशास्त्रसंग्रहसत्क: कागजपत्रोपरिलिखितो जीर्णप्रायः प्राचीन आदर्शः, पोथी ३२४, ग्रन्थाङ्क: २७१६, पत्रसंख्या १-५ । K1 = वडोदरासमीपे छाणीग्रामे प्रवर्तकश्रीकान्तिविजयजीसत्के ज्ञानभाण्डागारे विद्यमानः कागजपत्रात्मक आदर्शः । ग्रन्थाङ्कः ३४० । पत्रसंख्या १-३ । ___P1 पाटणनगरे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमानः कागजपत्रात्मक आदर्शः, ग्रन्थाङ्क: २५२५ । पत्रसंख्या १-४ । P2 पाटणनगरे श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमानः कागजपत्रात्मक आदर्शः, ग्रन्थाङ्क: २८६७, पत्रसंख्या १-२ । P3 पाटणनगरे संघवीपाडाभाण्डागारसत्कः, किन्तु सम्प्रति श्री हेमचन्द्राचार्यजैनज्ञानमन्दिरे विद्यमानः तालपत्रात्मक आदर्शः, डा०नं० १७१-२। मूलपत्रसंख्या २-६ । टीकापत्रसंख्या १-२३ ॥ R= श्रीरूपविजयजी डहेलानो जैन उपाश्रय-ग्रन्थभण्डार-दोशीवाडानी पोल अमदावाद-सत्क आदर्शः । डाबडा नंबर १०५, प्रतिनंबर ५३४४ । पत्रसंख्या- १-१३ । १-३A मध्ये न्यायप्रवेशकसूत्रं वर्तते । ३A-१३B मध्ये न्यायप्रवेशकटीका वर्तते । ___V= वडोदरानगरे प्रवर्तकश्री कान्तिविजयजीसत्के ज्ञानभाण्डागारे विद्यमानः कागजपत्रात्मकः सटीक 20 आदर्शः । ग्रन्थाङ्कः १२७६ । पत्रसंख्या-मूलमात्रम् १, हारिभद्रीटीका २-६ । न्यायप्रवेशकस्य द्विविधा पाठपरम्परा दृश्यते , परस्परमपि हस्तलिखितादर्शेषु बहवः पाठभेदा दृश्यन्ते। ते च तत्र तत्र टिप्पनेषु अस्माभिर्दर्शिताः । यद्यपि तालपत्रनिर्दिष्टाः पाठाः प्राचीनतमाः, प्रायः त एव चास्माभिः मूले स्थापिताः, तथापि हरिभद्रसूरिविरचिता टीका P2 मध्ये विद्यमानां पाठपरम्परां प्राधान्येन अनुसरति इति बहुषु पाठेषु अस्माकमनुभव इति सुधीभिरवश्यं ज्ञेयम् । न्यायप्रवेशकसूत्रस्य द्वौ भोटभाषानुवादौ [Tibetan Translations] अपि उपलभ्येते- एक: संस्कृताद्भोटभाषायां विहितोऽनुवादः,अपरस्तु संस्कृतभाषात: चीनभाषायां विहितमनुवादमवलम्ब्य 25 भोटभाषायां विहितोऽनुवादः । अनयोः संस्कृतात् परस्परं च पाठभेदा अनेकेषु स्थलेषु दृश्यन्ते ॥ १. नित्यः शब्दोऽनित्यो वेति P1, 3, K, K1,V.D ॥ २. मिति V । मेव निश्चितं । K ॥ ३. वा पुनर्वि R॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192