Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 109
________________ न्यायप्रवेशकवृत्तिपञ्जिका। प्रकृत्याख्यमेतद्विपरीतमिति। तत्र विपरीतता सुयोज्यैव, नवरं प्रधानं दिवि भव्यन्तरिक्षे च सर्वत्र व्यापितया वर्तत इति व्यापित्वं तस्य । तथाऽव्यक्तस्य व्यापकत्वेन संचरणरूपायाः क्रियाया अभावान्निष्क्रियत्वं च द्रष्टव्यम् । इति दिड्मात्रमिदं दर्शितम् । विशेषव्याख्यानं तु सांख्यशास्त्रादेव सांख्यसप्तत्यादेरवसेयम् ।। ___ तदेतत् प्रकृतोपयोगि, यद्यस्मादुत्पन्नं तत् तस्मिन्नेव लयं गच्छतीत्ययमेव व्यक्तेभ्रंशो 5 नापरः कश्चिन्निरन्वयरूपोऽत आह- तैदेतदित्यादि [पृ०२९ पं०१४] । इह त्रैलोक्यशब्देन महदादिकमेव कार्यमुच्यते । स्वर्ग-मर्त्य-पाताललक्षणस्यापि च त्रैलोक्यस्य महदादिव्यतिरिक्तस्याभावात् । नित्यत्वप्रतिषेधादिति । आकाशादीनाश्रित्य नैयायिकादिभिरुक्तस्य 'अप्रच्युतानुत्पन्नस्थिरै कस्वभावं नित्यम्' इत्यस्य निषेधात् । तथाऽपेतमप्यस्ति 10 विनाशप्रतिषेधादिति । आविर्भाव-तिरोभावमात्रस्यैवाङ्गीकरणेन बौद्धाभ्युपगतस्य निरन्वय- 10 विनाशस्य निराकरणादित्यर्थः । ततोऽत्र विनाशित्वं निरन्वयरूपं सांख्यस्य न साध्यमिति पक्षाभासत्वम्। 15 # "एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः ॥१३॥ एतेन पूर्वोक्तेन चित्तपरिणामेन धर्मलक्षणावस्थारूपेण भूतेन्द्रियेषु धर्मपरिणामो लक्षणपरिणामोऽवस्थापरिणामश्चोक्तो वेदितव्यः । तत्र व्युत्थाननिरोधयोरभिभवप्रादुर्भावौ धर्मिणि धर्मपरिणामः । लक्षणपरिणामश्च निरोधस्त्रिलक्षणस्त्रिभिरध्वभिर्युक्तः । स खल्वनागतलक्षणमध्वानं प्रथमं हित्वा धर्मत्वमनतिक्रान्तो वर्तमानलक्षणं प्रतिपन्नः। यत्रास्य स्वरूपेणाभिव्यक्तिः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तः। ___तथा व्युत्थानं त्रिलक्षणं त्रिभिरध्वभिर्युक्तं वर्तमानलक्षणं हित्वा धर्मत्वमनतिक्रान्तमतीतलक्षणं प्रतिपन्नम् । एषोऽस्य तृतीयोऽध्वा । न चानागतवर्तमानाभ्यां लक्षणाभ्यां वियुक्तम्। एवं पुनर्युत्थानमुपसंपद्यमानमनागतलक्षणं हित्वा धर्मत्वमनतिक्रान्तं वर्तमानलक्षणं प्रतिपन्नम् । यत्रास्य स्वरूपाभिव्यक्तौ सत्यां व्यापारः । एषोऽस्य द्वितीयोऽध्वा । न चातीतानागताभ्यां लक्षणाभ्यां वियुक्तमिति । एवं पुनर्निरोध एवं पुनर्युत्थानमिति । तथाऽवस्थापरिणामः । तत्र निरोधक्षणेषु निरोधसंस्कारा बलवन्तो भवन्ति दुर्बला व्युत्थानसंस्कारा इति । एष धर्माणामवस्थापरिणामः । तत्र धर्मिणो धर्मैः परिणामो धर्माणां त्र्यध्वनां लक्षणैः परिणामो लक्षणानामप्यवस्थाभिः परिणाम इति । एवं धर्मलक्षणावस्थापरिणामैः शून्यं न क्षणमपि गुणवृत्तमवतिष्ठते । चलं च गुणवृत्तम् । गुणस्वाभाव्यं त प्रवत्तिकारणमक्तं गणानामिति । एतेन भतेन्द्रियेष धर्मधर्मिभेदात त्रिविधः परिणामो वेदितव्यः। परमार्थतस्त्वेक एव परिणामः । धर्मिस्वरूपमात्रो हि धर्मो धर्मिविक्रियैवैषा धर्मद्वारा प्रपञ्च्यत इति । तत्र धर्मस्य धर्मिणि वर्तमानस्यैवाध्वस्वतीतानागतवर्तमानेषु भावान्यथात्वं भवति न तु द्रव्यान्यथात्वम् । यथा सुवर्णभाजनस्य भित्त्वाऽन्यथाक्रियमाणस्य भावान्यथात्वं भवति न सुवर्णान्यथात्वमिति । अपर आह- धर्मानभ्यधिको धर्मी पूर्वतत्त्वानतिक्रमात् । पूर्वापरावस्थाभेदमनुपतितः कौटस्थ्येनैव परिवर्तेत 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192