Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 138
________________ ११० पार्श्वदेवगणिविरचिता मध्यपदलोपितृतीयातत्पुरुषं केचिद्विदधते तमेवाह- अन्ये त्वित्यादि [पृ०४४ पं०९] । न चैतदिति । प्राचीने उत्तरे सति नातिश्लिष्टमिदं व्याख्यानमित्यर्थः । एवमिति । साध्यं च उभौ च साध्यसाधनरूपौ साध्योभये । समासे सत्युभयेति व्यवतिष्ठते । उभः स्वद्विवचने[ ] इति वचनात् । सूत्रस्य चायमर्थः- उभ इति प्रयुज्यते स्वद्विवचन एव, स्वद्विवचनाभावे उभय इत्येव प्रयुज्येत । ततः साध्योभये धर्मा असिद्धा [पृ०४४ पं०११] ययोदृष्टान्तयोस्तौ तथा, तयोरपि भावनीयमिति समासादिकम् । अवसर: प्रस्तावः तं प्राप्तः, अवसरो वा प्राप्तो यस्येति विग्रहः [पृ०४४ पं०१२] । निर्दिश्यत इति । उदाहरणमिति शेषः । अथ यदि साधर्म्यदृष्टान्तोऽगमकः संजातस्तर्हि वैधHदृष्टान्तः 'नित्यत्वाभावे न भवत्येवामूर्तत्वम्, यथा घटे, न च तथा शब्दः, तस्मान्नित्यः' इति साध्यसिद्धये उपादीयतामन्वयव्यतिरेकयोरन्यतरेण साध्यसिद्धेरिति चेत्, आह - एतदाभासानामिति [पृ०४५ पं०८] साधर्म्यदृष्टान्ताभासानामिति । अथ यदि साधनधर्मासिद्धोऽयं तथाप्याभासता कथमस्येत्याह- अयं चेति [पृ०४५ पं०८] साध्यसाधने च ते धर्मों च ताभ्यामनुगतो युक्तः स तथा । इह त्विति [पृ०४५ पं०९] प्रस्तुतप्रयोगे । अन्त्यं पर्यन्तभूतं तच्च तत् कारणं च परमाण्वाख्यमन्त्यकारणम् [पृ०४५ पं०१०], तस्य भावस्तत्त्वं तेन । अयमत्र भावार्थ:- कार्यं समवायिकारणपूर्वकं तत्कारणमप्यन्यसमवायिकारणपूर्व कमिति यावदाद्यं व्यणुक रूपं कार्यं तदपि समवायिकारणजन्यमिति तजनकं परमाण्वाख्यमेवान्त्यं कारणम् । तच्च नित्यम्, अन्यथा सर्वस्य कार्यस्य विनाशे समवायिकारणाभावात् पुनः कार्यस्योत्पत्तिर्न स्यादिति नित्यपरमाणुकारणैर्यणुकादिप्रक्रमेण कार्यमारभ्यते । तस्मादन्त्यकारणत्वेन नित्या अणव इति । अथ परमाणूनामयोगिभिः प्रत्यक्षेणाग्रहणात् कथं तन्मूर्तत्वं निश्चीयत इत्याहमूर्तत्वं चेति [पृ०४५ पं०११] । मूर्तं यत्तत्कार्यं परमाणुनिष्पन्नघटादि तस्योपलब्धेर्दर्शनात् । तथा चोक्तं परमाणुलक्षणं यथा कारणमेव तदन्त्यं नित्यो मूर्तश्च भवति परमाणुः । एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ [ ] इति । स्पर्शद्वयं चाविरुद्धमेवाणौ भवतीति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192