Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 140
________________ ११२ पार्श्वदेवगणिविरचिता व्याप्तिस्तदाऽनित्यः शब्दः कृतकत्वाद् घटवदित्येवमपि प्रतीयते । अथ न प्रत्यक्षादिसिद्धा तदा वीप्सा-सर्वग्रहणाभ्यामपि न प्रतीयते । सिद्धानुवादार्थं हि दृष्टान्तवचो न त्वसिद्धविधायकमिति । साधर्म्यप्रयोगे हि साधनधर्मपूर्वः साध्यधर्मो दर्शनीयः । इह तु साध्यधर्मपूर्व: साधनधर्मो दर्शितः । एतदेवाह-प्रागित्यादि [पृ०४६ पं०१४] । न्यायमुद्रेति [पृ०४६ पं०१५] न्यायमर्यादोल्लङ्घनमित्यर्थः। अनेन पदे नै तदाह - कृ तक त्वं वस्तुनोऽनित्यत्वस्वभावत्वमित्येवं येन नावगतं तं प्रति यदनित्यं तत् कृतकमित्येवं क्रियमाणेऽनित्यत्वानुवादेन कृतकत्वविधानात् कृतकत्वादनित्यत्वप्रतीतिर्न स्यादित्येवं दोषः प्रकृतेऽनुषज्यते । येन च कृतकत्वमनित्यत्वस्वभावमेवेति विज्ञातं तं प्रति यद्यपि प्रकृते न्यायमुद्राव्यतिक्रमदोषादन्यो दोषो नोत्पद्यते तथाऽपि तं प्रत्यप्यन्यत्र व्यभिचारः स्यात् । एतदेवाह-अन्यत्रेत्यादि [पृ०४६ पं०१६] । विपरीतव्याप्तिकरणे हि विद्युदादिना व्यभिचार: प्रसज्यते । कथमित्याह-अनित्यानामपीत्यादि [पृ०४६ पं०१७] । एतदुक्तं भवतिइहान्वयप्रयोगे हे तुसत्त्वे साध्यसत्त्वोपदर्शने क्रियमाणे प्रयत्नानन्तरीयकमनित्यमेव भवतीत्ययोगव्यवच्छेदतयाऽवधारणार्थे गम्यमाने सति व्यभिचारो न स्यात् । साध्यसत्त्वे च हेतुसत्त्वे उपदर्घामानेऽन्ययोगव्यवच्छेदतयाऽवधारणार्थो गम्यते । यथा यदनित्यं तत् प्रयत्नानन्तरीयकमेवेति, अयं चार्थो व्यभिचार्येव । यतोऽनित्यं प्रयत्नानन्तरीयकं घटादि अप्रयत्नानन्तरीयकं विद्युदादि चेत्युभयस्वभावमप्यनित्यं भवति । तस्मादन्वयप्रयोगे हेतुसत्त्वे साध्यसत्त्वं दर्शनीयमिति । तत्रेति [पृ०४७ पं०६] पञ्चसु मध्ये । आक्षेपेत्यादि । बहुव्रीहौ निष्ठान्तं पूर्व निपततीत्यादिकौ । एवमिति [पृ०४७ पं०७] । उभाववयवौ साध्यसाधनरूपौ यस्य साध्यसाधनसमुदायस्यासावुभयः । साधनं च उभयश्च तौ साधनोभयौ तावव्यावृत्तौ यकाभ्यां तौ तथा, तयोः । यद्वा साधनाव्यावृत्तश्चोभयाव्यावृत्तश्चेति समस्याऽव्यावृत्तशब्दस्य लोपः । साधनमव्यावृत्तमस्मादित्यादिना समासकरणं वक्तव्यमित्यर्थः । अथ यदि वैधर्म्यदृष्टान्तोऽगमकस्तर्हि साधर्म्यदृष्टान्तेन यदमूर्तं तन्नित्यं दृष्टं यथाकाशमित्येवं साध्यसिद्धिः क्रियतामित्याह- वैधय॒त्यादि [पृ०४८ पं०५] । अथात्राभासता कथम्? । यावता वैधर्म्यदृष्टान्तोऽपि साक्षात् किमिति नेष्यत इत्याह- अयं चेति । १. नित्यत्वभावमि J. ॥ २. नित्यत्वस्वभावत्वमि c. ॥ ३. दृश्यतां पृ०४४ पं०७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192