Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 139
________________ न्यायप्रवेशक वृत्तिपञ्जिका । १११ तदमूर्तत्वप्रतीतेरिति [ पृ०४५ पं०१६ ] । तस्या बुद्धेरमूर्तत्वं तस्य प्रतीतेरवबोधात् । विद्यमानोभयासिद्ध इति [ पृ०४५ पं०१८] । उभौ धर्मावसिद्धौ यत्र उभाभ्यां वा धर्माभ्यामसिद्धस्ततो विद्यमानश्चासावुभयासिद्धश्च स तथा । यद्वा दृष्टान्तधर्मिणि विद्यमाने वस्तुभूते सति उभयमसिद्धं यत्रेति बहुव्रीहिः । तत्र घटवदिति [ पृ०४५ पं०१९] । तत्रेति सदसतोरुभयोर्मध्ये । अत्रेति घटदृष्टान्ते [पृ०४५ पं० २०] । अयमिति [ पृ०४६ पं०२] आकाशाख्यः । कथं पुनरसौ सांख्यस्य बौद्धं प्रत्युभयासिद्धः, तत्र ह्युभयधर्मसद्भावादित्याहसति हीति । बौद्धस्यालोक -तमसी एवाकाशं नेतरत्, ततोऽन्यस्याकाशधर्मिणोऽभावात् किं नित्यत्वा ऽमूर्तत्वधर्मचिन्तया कृत्यम् ? सति धर्मिणि धर्मचिन्तनं युक्तमिति मन्यते । अनन्वय इत्यादि [पृ०४६ पं०५] । यद्यपि ग्रन्थान्तरे रागादिमानयं पुमान् वक्तृत्वादिष्टपुरुषवत् इत्ययं वक्तृत्व- रागादिमत्त्वयोः सत्त्वमात्रस्येष्टपुरुषे सिद्धत्वात् व्याप्त्यसिद्धेश्चानन्वयो दृष्टान्तदोष उक्तः, अनित्यः शब्दः कृतकत्वाद् घटवदित्येवंरूपश्च भिन्नो दृष्टान्तदोषोऽप्रदर्शितान्वय उक्तः, तथाप्यत्रानन्वयाप्रदर्शितान्वययोरैक्यं विवक्षितमिति लक्ष्यते । अप्रदर्शितान्वय इत्यर्थ इति [ पृ०४६ पं०५] पर्यायप्रदानात् । न तु वीप्सयेति [पृ०४६ पं०८ ] । गुणेन कृतकत्वादिना व्याप्तिरिह वीप्सा तया । अथ च किल यद्यदिति वीप्सया यदित्थं तत् सर्वमित्येवं वा व्याप्तिः प्रत्याय्या, नान्यथा । एवं सतीत्यादि [ पृ०४६ पं०१०] । आश्रयो घटस्तत्राश्रयिणौ कृतकत्वानित्यात्वाख्यौ धर्मों, तयोर्भावमात्रं सत्तामात्रम् । तस्याभिधानात् । अन्यत्रेति [पृ०४६ पं० ११ ] प्रयोगान्तरे । तथाहि - कार्यहेतुप्रयोगे महानसे धूमवत्त्वमग्निमत्त्वं च दृष्टमित्येवमाश्रयाश्रयिभावमात्रप्रदर्शने व्यभिचारोऽपि संभवति । यतो महानसे कदाचिद् वह्नि- धूमयोरुभयोरपि सद्भावः । कदाचिद्धूमरहितवह्नेरेव । कदाचिदुभयोरभावोऽपि ततो व्याप्तिप्रदर्शनमन्तरेण दृष्टान्ते साध्यहेत्वोः संभवमात्रे प्रदर्श्यमाने महानसे कदाचिदुभयाभावोऽपि दृश्यत इत्युभयविकलमहानसवत् साध्याभावमपि कदाचित् प्रतिपद्येतेति । अन्ये त्विदं दूषणं नानुमन्यन्ते, सर्वशास्त्रेष्वेवं प्रयोगदर्शनात् । न च प्रतिवादिवचः स्वातन्त्र्येण प्रमाणम् । किं तर्हि ? | प्रमाणान्तरानुगृहीतम् । ततश्च यदि प्रत्यक्षादिसिद्धाऽस्ति १. नन्वयमिति J. P. II २. " अनन्वयोऽप्रदर्शितान्वयश्चेति । यथा यो वक्ता स रागादिमानिष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद् घटवदिति ।" इति न्यायबिन्दौ तृतीयपरिच्छेदे सू० १२७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192