________________
न्यायप्रवेशक वृत्तिपञ्जिका ।
१११
तदमूर्तत्वप्रतीतेरिति [ पृ०४५ पं०१६ ] । तस्या बुद्धेरमूर्तत्वं तस्य प्रतीतेरवबोधात् । विद्यमानोभयासिद्ध इति [ पृ०४५ पं०१८] । उभौ धर्मावसिद्धौ यत्र उभाभ्यां वा धर्माभ्यामसिद्धस्ततो विद्यमानश्चासावुभयासिद्धश्च स तथा । यद्वा दृष्टान्तधर्मिणि विद्यमाने वस्तुभूते सति उभयमसिद्धं यत्रेति बहुव्रीहिः । तत्र घटवदिति [ पृ०४५ पं०१९] । तत्रेति सदसतोरुभयोर्मध्ये । अत्रेति घटदृष्टान्ते [पृ०४५ पं० २०] । अयमिति [ पृ०४६ पं०२] आकाशाख्यः । कथं पुनरसौ सांख्यस्य बौद्धं प्रत्युभयासिद्धः, तत्र ह्युभयधर्मसद्भावादित्याहसति हीति । बौद्धस्यालोक -तमसी एवाकाशं नेतरत्, ततोऽन्यस्याकाशधर्मिणोऽभावात् किं नित्यत्वा ऽमूर्तत्वधर्मचिन्तया कृत्यम् ? सति धर्मिणि धर्मचिन्तनं युक्तमिति मन्यते ।
अनन्वय इत्यादि [पृ०४६ पं०५] । यद्यपि ग्रन्थान्तरे रागादिमानयं पुमान् वक्तृत्वादिष्टपुरुषवत् इत्ययं वक्तृत्व- रागादिमत्त्वयोः सत्त्वमात्रस्येष्टपुरुषे सिद्धत्वात् व्याप्त्यसिद्धेश्चानन्वयो दृष्टान्तदोष उक्तः, अनित्यः शब्दः कृतकत्वाद् घटवदित्येवंरूपश्च भिन्नो दृष्टान्तदोषोऽप्रदर्शितान्वय उक्तः, तथाप्यत्रानन्वयाप्रदर्शितान्वययोरैक्यं विवक्षितमिति लक्ष्यते । अप्रदर्शितान्वय इत्यर्थ इति [ पृ०४६ पं०५] पर्यायप्रदानात् ।
न तु वीप्सयेति [पृ०४६ पं०८ ] । गुणेन कृतकत्वादिना व्याप्तिरिह वीप्सा तया । अथ च किल यद्यदिति वीप्सया यदित्थं तत् सर्वमित्येवं वा व्याप्तिः प्रत्याय्या, नान्यथा । एवं सतीत्यादि [ पृ०४६ पं०१०] । आश्रयो घटस्तत्राश्रयिणौ कृतकत्वानित्यात्वाख्यौ धर्मों, तयोर्भावमात्रं सत्तामात्रम् । तस्याभिधानात् ।
अन्यत्रेति [पृ०४६ पं० ११ ] प्रयोगान्तरे । तथाहि - कार्यहेतुप्रयोगे महानसे धूमवत्त्वमग्निमत्त्वं च दृष्टमित्येवमाश्रयाश्रयिभावमात्रप्रदर्शने व्यभिचारोऽपि संभवति । यतो महानसे कदाचिद् वह्नि- धूमयोरुभयोरपि सद्भावः । कदाचिद्धूमरहितवह्नेरेव । कदाचिदुभयोरभावोऽपि ततो व्याप्तिप्रदर्शनमन्तरेण दृष्टान्ते साध्यहेत्वोः संभवमात्रे प्रदर्श्यमाने महानसे कदाचिदुभयाभावोऽपि दृश्यत इत्युभयविकलमहानसवत् साध्याभावमपि कदाचित् प्रतिपद्येतेति । अन्ये त्विदं दूषणं नानुमन्यन्ते, सर्वशास्त्रेष्वेवं प्रयोगदर्शनात् । न च प्रतिवादिवचः स्वातन्त्र्येण प्रमाणम् । किं तर्हि ? | प्रमाणान्तरानुगृहीतम् । ततश्च यदि प्रत्यक्षादिसिद्धाऽस्ति
१. नन्वयमिति J. P. II २. " अनन्वयोऽप्रदर्शितान्वयश्चेति । यथा यो वक्ता स रागादिमानिष्टपुरुषवत् । अनित्यः शब्दः कृतकत्वाद् घटवदिति ।" इति न्यायबिन्दौ तृतीयपरिच्छेदे सू० १२७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org