________________
११२
पार्श्वदेवगणिविरचिता व्याप्तिस्तदाऽनित्यः शब्दः कृतकत्वाद् घटवदित्येवमपि प्रतीयते । अथ न प्रत्यक्षादिसिद्धा तदा वीप्सा-सर्वग्रहणाभ्यामपि न प्रतीयते । सिद्धानुवादार्थं हि दृष्टान्तवचो न त्वसिद्धविधायकमिति ।
साधर्म्यप्रयोगे हि साधनधर्मपूर्वः साध्यधर्मो दर्शनीयः । इह तु साध्यधर्मपूर्व: साधनधर्मो दर्शितः । एतदेवाह-प्रागित्यादि [पृ०४६ पं०१४] । न्यायमुद्रेति [पृ०४६ पं०१५] न्यायमर्यादोल्लङ्घनमित्यर्थः। अनेन पदे नै तदाह - कृ तक त्वं वस्तुनोऽनित्यत्वस्वभावत्वमित्येवं येन नावगतं तं प्रति यदनित्यं तत् कृतकमित्येवं क्रियमाणेऽनित्यत्वानुवादेन कृतकत्वविधानात् कृतकत्वादनित्यत्वप्रतीतिर्न स्यादित्येवं दोषः प्रकृतेऽनुषज्यते । येन च कृतकत्वमनित्यत्वस्वभावमेवेति विज्ञातं तं प्रति यद्यपि प्रकृते न्यायमुद्राव्यतिक्रमदोषादन्यो दोषो नोत्पद्यते तथाऽपि तं प्रत्यप्यन्यत्र व्यभिचारः स्यात् । एतदेवाह-अन्यत्रेत्यादि [पृ०४६ पं०१६] । विपरीतव्याप्तिकरणे हि विद्युदादिना व्यभिचार: प्रसज्यते । कथमित्याह-अनित्यानामपीत्यादि [पृ०४६ पं०१७] । एतदुक्तं भवतिइहान्वयप्रयोगे हे तुसत्त्वे साध्यसत्त्वोपदर्शने क्रियमाणे प्रयत्नानन्तरीयकमनित्यमेव भवतीत्ययोगव्यवच्छेदतयाऽवधारणार्थे गम्यमाने सति व्यभिचारो न स्यात् । साध्यसत्त्वे च हेतुसत्त्वे उपदर्घामानेऽन्ययोगव्यवच्छेदतयाऽवधारणार्थो गम्यते । यथा यदनित्यं तत् प्रयत्नानन्तरीयकमेवेति, अयं चार्थो व्यभिचार्येव । यतोऽनित्यं प्रयत्नानन्तरीयकं घटादि अप्रयत्नानन्तरीयकं विद्युदादि चेत्युभयस्वभावमप्यनित्यं भवति । तस्मादन्वयप्रयोगे हेतुसत्त्वे साध्यसत्त्वं दर्शनीयमिति ।
तत्रेति [पृ०४७ पं०६] पञ्चसु मध्ये । आक्षेपेत्यादि । बहुव्रीहौ निष्ठान्तं पूर्व निपततीत्यादिकौ । एवमिति [पृ०४७ पं०७] । उभाववयवौ साध्यसाधनरूपौ यस्य साध्यसाधनसमुदायस्यासावुभयः । साधनं च उभयश्च तौ साधनोभयौ तावव्यावृत्तौ यकाभ्यां तौ तथा, तयोः । यद्वा साधनाव्यावृत्तश्चोभयाव्यावृत्तश्चेति समस्याऽव्यावृत्तशब्दस्य लोपः । साधनमव्यावृत्तमस्मादित्यादिना समासकरणं वक्तव्यमित्यर्थः ।
अथ यदि वैधर्म्यदृष्टान्तोऽगमकस्तर्हि साधर्म्यदृष्टान्तेन यदमूर्तं तन्नित्यं दृष्टं यथाकाशमित्येवं साध्यसिद्धिः क्रियतामित्याह- वैधय॒त्यादि [पृ०४८ पं०५] । अथात्राभासता कथम्? । यावता वैधर्म्यदृष्टान्तोऽपि साक्षात् किमिति नेष्यत इत्याह- अयं चेति ।
१. नित्यत्वभावमि J. ॥ २. नित्यत्वस्वभावत्वमि c. ॥ ३. दृश्यतां पृ०४४ पं०७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org