________________
न्यायप्रवेशकवृत्तिपञ्जिका।
११३ उभौ च तौ धौ चोभयधौं । साध्यं च साधनं च साध्यसाधने, ते च ते उभयधर्मी च, ताभ्यां विकलः [पृ०४८ पं०७] । यत उक्तमित्यतोऽग्रे 'यत्र दृष्टान्ते' इति शेषः । इत्यादि इत्यतोऽग्रे 'स वैधर्म्यदृष्टान्तः' इति शेषः । अथायमपि साध्यसाधनधर्माविकल: स्यादित्याहन चायमिति [पृ०४८ पं०८] ।
आहेत्यादि [पृ०४८ पं०११] । किमर्थमित्यतोऽग्रे [पृ०४८ पं०१२] 'आदावुक्तः' इति शेषः । तस्येति साधर्म्यप्रयोगस्य। हेतुसत्त्वे साध्यसत्त्वमन्वयः, तत्प्रधानत्वात् । अन्वयस्य चेति । साधनधर्मः पुरःसरो यत्र साध्यधर्मोच्चारणे तच्च तत् साध्यधर्मस्योच्चारणं च तदेव रूपं यस्यान्वयस्य स तथा, तस्य भावस्तत्त्वम्, तस्मात् । किमुक्तं भवति ? । साध्येन व्याप्तो हेतुर्दर्शनीयः साधर्म्यप्रयोगे अतो य: प्रागुच्चार्यते साधनधर्मस्तद्विकल एव दृष्टान्तः साधर्म्यदृष्टान्ताभासेष्वादौ वक्तुं युज्यते । वैधर्म्यप्रयोगे तु नायं न्याय इत्याहव्यतिरेकेत्यादि [पृ०४८ पं०१३] । उभयोः साध्यसाधनयोावृत्ती रूपं यस्य स तथा । यद्यप्येवं वैधर्म्यप्रयोगस्तथाप्यत्र साधनाव्यावृत्तदृष्टान्त आदौ किमिति नोक्त इत्याहसाध्याभावे चेति [पृ०४८ पं०१४] । अयमर्थः- वैधर्म्यप्रयोगे साध्याभावे हेतोरभाव: क्रियते अतो दृष्टान्तोऽप्यत्र साध्याव्यावृत्त एवादौ वक्तुं युज्यते न साधनाव्यावृत्त इति ।
प्रयोगः पूर्ववदेवेति [पृ०४८ पं०१६] । नित्यः शब्दोऽमूर्तत्वादित्येवंरूपा साध्यसाधनयोः प्रयुक्तिरित्यर्थः।।
अथेह कर्म किं पुण्यपापरूपं गृह्यतेऽन्यद्वेत्याह-तच्चेति [पृ०४८ पं०१७] ।
उभयेत्यादि [पृ०४९ पं०१] । आकाशवादिनं प्रति नित्यः शब्दोऽमूर्तत्वादाकाशवदिति साधर्म्यप्रयोगः सम्यगेव । यदा तु नित्यत्वाभावे न भवत्येवामूर्तत्वं यथाऽऽकाश इति तत्सत्त्ववाद्येव वदति तदोभयाव्यावृत्त इति । अथात्र यदमूर्तं तन्नित्यं दृष्टं यथा परमाण्वादीति साधर्म्यदृष्टान्तं प्रदर्श्य यन्नित्यं न भवति न तदमूर्तं यथाकाशमिति वैधर्म्यदृष्टान्तो वक्तुं युज्यत इति चेदाह- नित्यत्वेत्यादि [पृ०४९ पं०१] । अथ परमाणावमूर्तत्वस्याभावात् कथमिदं संगच्छत इति चेत्, उच्यते, न पारिभाषिकममूर्तत्वं ग्राह्यम्, किंतु लोकरूढ्याऽमूर्तत्वं चक्षुषाऽदृश्यत्वमाश्रित्योक्तमिदमिति संभाव्यते ।
अव्यतिरेक इत्यादि [पृ०४९ पं०५] । इहाप्यनिदर्शितव्यतिरेक इत्यर्थ इति पर्यायप्रदानादप्रदर्शितव्यतिरेको यो ग्रन्थान्तरे उक्तो यथा नित्यः शब्दोऽमूर्तत्वाद् घटवदिति
१. "अप्रदर्शितव्यतिरेको यथा अनित्यः शब्दः कृतकत्वादाकाशवदिति" इति न्यायबिन्दौ तृतीये परिच्छेदे सू० १३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org