________________
११४
पार्श्वदेवगणिविरचिता तस्यात्रैवान्तर्भावं मन्यत इति लक्ष्यते । यत्र विनेति [पृ०४९ पं०६] । यत्र प्रयोगे नित्यत्वादिसाधके नित्यः शब्दोऽमूर्तत्वादिति प्रभण्य यदनित्यं तन्मूर्तं दृष्टमित्येवं साध्यसाधननिवृत्तिमकृत्वैव घटेऽनित्यत्वं मूर्तत्वं च दृष्टमिति साध्यसाधनाभावमात्रं दर्शयति यदा तदाऽव्यतिरेक उच्यते ।
अथैवमपि भवतु को दोष: स्यादित्याह इत्थं हीति [पृ०४९ पं०१०] । एकत्रेति घटादौ । अभिधेयमानं साध्यसाधनयोरभावप्रदर्शनमात्रम्, तस्याभिधानात् प्रतिपादनात् । वैधर्म्यप्रतिपादनं च यदनित्यं तन्मूर्तं दृष्टमित्याद्यनुच्चारणेन कृत्वाऽर्थापत्त्यादिना गम्यत्वे साध्यसाधननिवृत्तेरित्यर्थः । इह हि व्यतिरेकवाक्यमनुक्त्वैव वैधर्म्यदृष्टान्तोऽसादृश्यमात्रेण साधक उपन्यस्तो न च तथा गमको भवतीति इष्टार्थासाधकत्वमतः स्वयमदुष्टोऽपि वक्तुरपराधाद् दुष्टः । साधने च वक्तुरपि दोषाश्चिन्त्यन्ते । साध्याभावे साधनाभावोपदर्शनं व्यतिरेक उच्यते ।
प्रस्तुतप्रयोगे एवेति [पृ०४९ पं०१३] नित्यः शब्दोऽमूर्तत्वादिति प्रतिज्ञाहेतुस्वरूपे। तथाविधः साध्यसाधनानुगतो योऽसौ साधर्म्यदृष्टान्त आकाशादिकस्तेन युक्ते यदा यन्मूर्त तदनित्यमिति [पृ०४९ पं०१५] साधनाभावे साध्याभावं दर्शयति तदा विपरीतव्यतिरेकः । - इह वैधर्म्यप्रयोगे साध्याभावे साधनाभावोपदर्शने व्यभिचारो न भवति । साधनाभावे च साध्याभावोपदर्शने व्यभिचार एव । तथाहि- यन्मूर्तं तदनित्यमित्युक्ते परमाणुना व्यभिचारः। स हि मूर्तोऽथ च नित्य एवेति । तथाऽनित्यत्वसाधकवैधर्म्यप्रयोगेऽपि साधनाभावपूर्वके साध्याभावे प्रदर्श्यमाने व्यभिचार एवेति प्रश्नपूर्वकं वक्तुमाह- आहेत्यादि [पृ०४९ पं०१५]। एवमपीति व्यतिरेकप्रयोगे साधनाभावे साध्याभावोपदर्शने क्रियमाणे इत्यर्थः । विद्युदादौ व्यभिचार [पृ०४९ पं०१७] इति विद्युदादीनामप्रयत्नानन्तरीयकाणामप्यनित्यत्वादिति भावः। आभासत्वादेवेति [पृ०५० पं०१] पक्षादिसादृश्यादेव । न तु सम्यक्पक्षादित्वेन । अयमर्थः- साध्यसिद्ध्यर्थमेते उपादीयन्ते । तदकरणाच्च तत्स्थानप्रयुक्तत्वात् पक्षादीनामाभासता । अत एव चैषां न साधनत्वमिति ।
यदि दूषणस्यावसरस्तर्युच्यतामित्याह - तच्चेति [पृ०५० पं०६] । दूषणातिक्रमण च तदाभासस्याप्यतिक्रमो द्रष्टव्यः । [पृ०५० पं०७] आत्मप्रत्यायनार्थमित्यात्मावबोधार्थम्। अथ प्रत्यक्षानुमाने इत्येवमेकविभक्तिनिर्देशोऽस्त्वित्याह- असमासेत्यादि [पृ०५० पं०८] । भिन्नश्चासौ विषयश्च तस्य ज्ञापनार्थम्। एतेन प्रत्यक्षानुमानविषये संख्या-लक्षण-गोचरफलविषयायाश्चतुर्विधाया विप्रतिपत्तेमध्ये गोचरविप्रतिपत्तिं निराकरोति । गोचरश्च विषय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org