________________
न्यायप्रवेशकवृत्तिपञ्जिका। उच्यते । तथाहि- कैश्चिन्मीमांसकादिभिः प्रत्यक्षस्य सामान्यविशेषौ द्वावपि विषयौ कल्पितौ, अनुमानस्य सामान्यमेव विषयो न विशेषः। नैयायिक-वैशेषिकैस्तु परस्परविभक्तौ सामान्यविशेषौ द्वयोरपि । 'सांख्यैस्तु द्वयोरपि सामान्यं विषय इष्ट स्वैगुण्यरूपस्य सामान्यस्यास्याभ्युपगमात् । भूतचतुष्टयं प्रमाणभूमिरिति च चार्वाकैः । इत्येवंविधा विप्रतिपत्तिः प्रत्यक्षादिविषये, तन्निराकरणार्थमसमासकरणम् । भिन्नविषयत्वमेवाह- स्वलक्षणेत्यादि [पृ०५० पं०९] । लक्ष्यते तदन्यव्यपोहेनावधार्यते वस्त्वग्न्यादिकमनेनोष्णत्वादिनेति लक्षणं वस्तुनोऽसाधारणं रूपम् । ततः स्वं च तल्लक्षणं चेति स्वलक्षणम्। यद्वा स्वशब्देनेह वस्त्वभिधीयते, ततः स्वस्य वस्तुनो लक्षणं स्वलक्षणमिति। तद्विषयो गोचरो यस्य प्रत्यक्षस्य तत्तथा । तथा चोक्तम्-तस्य विषय: स्वलक्षणम्, तदेव परमार्थसत्[न्यायबिन्दौ १/१२/ १४] इति। अयमत्र भावार्थ:- वस्तुनः सामान्या-ऽसाधारणतया द्वैविध्यं संभवति । तत्र प्रथमाक्षसंनिपाते एकक्षणावस्थायि वस्त्वसाधारणरूपं सजातीयेतरव्यावृत्तं स्वलक्षणसंज्ञितं प्रत्यक्षस्य ग्राह्यम्। गृहीतसंतानश्च प्रत्यक्षपृष्ठभाविनो विकल्पस्याध्यवसेयः । प्रापणीयश्च प्रत्यक्षस्य संतान एव, क्षणस्य प्रापयितुमशक्यत्वात् । संतानशब्देन चाध्यक्षगृहीतवस्तुनः सदृशापरापरक्षणप्रबन्ध उच्यते ।
इतरच्च यत् सामान्यं साधारणं विकल्पविज्ञानावभासि वस्तुनो रूपं तदनुमानस्य विषयोऽत एवाह- सामान्येत्यादि [पृ०५० पं०९] । सामान्यं साधारणं लक्षणं रूपं विषयो यस्य तत्तथा। तथाहि- लिङ्गदर्शनादनग्निव्यावृत्तमग्निमात्रमेव तार्णादिभेदरहितं सकलवह्निसाधारणं रूपं वह्निरत्रास्तीत्येवंरूपे ज्ञाने प्रमातुः प्रतिभासत इति सामान्यमेवानुमानस्य ग्राह्यम्। स्वसंवेदनप्रत्यक्षसिद्धमेव चानुमानज्ञानप्रतिभासिनोऽर्थस्य साधारणरूपत्वमिति । तथाऽनुमानस्याध्यवसेयः प्रापणीयश्च स्वलक्षणस्वरूप एवार्थः । तथाहि- लिङ्गदर्शनाद्यो मया वह्निर्गृहीतः स एवायं दृश्यत इति स्वलक्षणमेवाध्यवस्यति । तदेव च प्रथमाक्षसंनिपाते प्राप्नोतीति । एतेन च द्विविधो हि विषयः प्रमाणस्य ग्राह्यश्च यदाकारमुत्पद्यते, प्रापणीयश्च यमध्यवस्यति । अन्यो हि ग्राह्यो विषयोऽन्यश्चाध्यवसेय इत्याविर्भावितम् ।
संख्यानियममाहेति [पृ०५० पं०१०] एतेन संख्याविप्रतिपत्तिं निराकरोति । अस्ति चात्र संख्याविप्रतिपत्तिः । तथाहि- मीमांसकाः प्रत्यक्षानुमानशाब्दोपमानार्थापत्त्यभावलक्षणानि षट् प्रमाणानि मन्यन्ते । नैयायिकाः प्रत्यक्षानुमानशाब्दोपमानलक्षणानि चत्वारि । प्रत्यक्षानुमानशाब्दलक्षणानि त्रीणि वैशेषिका: । एतान्येव च सांख्याः । चार्वाकास्तु प्रत्यक्षमेवैकम् । इत्येतन्निरासेन प्राह-द्वे एव प्रमाण इति [पृ०५० पं०१०] । शेषप्रमाणानामिति शाब्दादीनाम्। अत्रैवेति अनयोरेव मध्ये । अथ यद्यनयोर्मध्येऽन्तर्भावोऽन्येषां तर्हि स यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org