________________
११६
पार्श्वदेवगणिविरचिता भवति तथा दर्श्यतामित्याह- अन्तर्भावश्चेति । अयमर्थः- प्रत्यक्षानुमानव्यतिरिक्तप्रमाणानां यदि सत्यार्थप्रापकत्वं तदाऽनयोरेवान्तर्भावो विज्ञेयः । अथार्थाप्रापकाणि तदाऽप्रमाणान्येव तानि, सन्दर्शितार्थप्रापकं हि प्रमाणं स्यादिति भावः । प्रत्यक्षानुमाने च नियतार्थदर्शकत्वात् प्रमाणे एव । तथाहि- प्रत्यक्षं सजातीयेतरव्यावृत्तं संतानाख्यं नियतमर्थं दर्शयति। अनुमानं तु लिङ्गसम्बद्धं नियतमर्थं विजातीयव्यावृत्तं सजातीयानुगतं संतानाख्यं दर्शयति ।शाब्दादिकं त्वनियतार्थदर्शकम्। 'नधास्तीरे गुडशकटं पर्यस्तं धावत धावत डिम्भकाः' इत्यादिविप्रतारकपुरुषवचनश्रवणात् प्रवृत्तानां मुग्धमतीनां डिम्भकानां कदाचिन्नियताप्राप्तेरिति । अत एते नियतार्थदर्शकत्वात् प्रमाणे, नैतद्व्यतिरिक्तं शाब्दादि नियतार्थानुपदर्शकत्वादित्यादिचर्चा ग्रन्थान्तराद्वेदितव्यः ।
नन्विह प्रत्यक्षमनुमानं चेति वचनादेव द्वित्वं लब्धं किं द्विग्रहणेन ? । उच्यते । द्विविधमेव प्रमाणमित्यवधारणार्थम् । तेनैकविधं चार्वाकाभिहितं त्रि-चतुष्प्रकारं च वैशेषिकाद्यभिहितं निरस्तं स्यात् । असति तु द्विग्रहणे एवकाराभावात् 'प्रत्यक्षानुमाने तावत् प्रमाणे, अन्यान्यपि प्रमाणानि भवन्ति' इति स्यादाशङ्का ।।
तत्रेति निर्धारणार्थ इति [पृ०५० पं०१५] । तत्र तयोः प्रत्यक्षानुमानयोर्मध्ये प्रत्यक्षजात्या प्रत्यक्षं निर्धार्यते । प्रत्यक्षाणां च बहुत्वाज्जातित्वं विज्ञेयम् । अनेन च लक्ष्यलक्षणविभागेन लक्षणविप्रतिपत्तिं निराकरोति । अस्ति चात्र विप्रतिपत्तिः । तथाहिमीमांसकादय एवमाहुः– निर्विकल्पकं यथा प्रत्यक्षं तथा जात्यादियोजनासहितमपि प्रत्यक्षम्, उपदर्शितार्थस्य प्रापकत्वात् । तथा चाहुः
अस्ति ह्यालोचनाज्ञानं प्रथमं निर्विकल्पकम् । बालमूकादिविज्ञानसदृशं शुद्धवस्तुजम् ॥ १ ॥ ततः परं पुनर्वस्तु धर्मैर्जात्यादिभिर्यया । बुद्ध्यावसीयते सापि प्रत्यक्षत्वेन संमता ॥ २ ॥ [ मी०श्लो॰वा०] इति ।
तत्र प्रथमाक्षसंनिपाते विकल्परहितमर्थदर्शनमालोचनाज्ञानमुच्यते । शुद्धवस्तुजं च तत्, जात्यादिधर्मयोजनारहितवस्तुन उत्पन्नत्वात् । तथा वैयाकरणा अप्याऽऽहुः- वाचकसंसृष्टं वाच्यमिन्द्रियज्ञाने प्रतिभासते तेन शब्दसंयोजना भवत्यत इन्द्रियविज्ञानं सविकल्पकम्। तथा नैयायिकादीनां सविकल्पकं प्रत्यक्षमिति कल्पनापोढग्रहणेन निराकरोति । १. "इदानीं निर्विकल्पकंमस्तित्वेन प्रमाणत्वेन च साधयितुमाह-अस्ति हीति । ननु सविकल्पकं विज्ञानमाक्षिप्त तदेव च साध्यत्वेन प्रतिज्ञातम्; तदनन्तरं निर्विकल्पकज्ञानसाधनमसम्बन्धमुच्यते । अपिशब्दात् तस्यापि प्रतिज्ञानात् तेन च विना सविकल्पकस्यानुत्पत्तेः सद्भावादारभ्य विप्रतिपत्तेश्च नासम्बन्धत्वम् । तथाचाहु:
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org