________________
न्यायप्रवेशकवृत्तिपञ्जिका।
११७ अधुनाऽवयवव्याख्यामाह- तत्रेत्यादि [पृ०५० पं०१७] । तत्रैवं सति प्रतिगतमाश्रितमक्षं प्रत्यक्षम्, अथाक्षमक्षं प्रति प्रत्यक्षमिति अव्ययीभावः कस्मान्न प्रदर्श्यते येनाऽयं समासः, उच्यते, स नंपुसकलिङ्गं स्यादिति नपुंसकलिङ्गता स्यात् प्रत्यक्षशब्दस्य । ततश्च प्रत्यक्षा बुद्धिः प्रत्यक्षो घट इति न स्यात्, इदमेव स्यात् 'प्रत्यक्षं ज्ञानं प्रत्यक्षं कुण्डं वा' इति, अतः अत्यादयः क्रान्ताद्यर्थे द्वितीयया [ पा० वा० ७८०/१/४/७९॥] इति अत्यादिसमासे सर्वलिङ्गता भवत्यतोऽत्यादिसमासं तत्पुरुषाख्यं दर्शितवान् । अथ तत्परुषपक्षेऽप्यक्षशब्दस्य नपुंसकलिङ्गत्वात् परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः[पा०२/४/२६/८१२] इति परवल्लिङ्गतायां नपुंसकलिङ्गप्राप्तिरूपस्तदवस्थो दोषः स्यादिति चेत्, उच्यते, प्राप्ताऽऽपन्नाऽलंगतिसमासेषु परवल्लिङ्गताप्रतिषेधादभिधेयवल्लिङ्गतेति सर्वलिङ्गः प्रत्यक्षशब्दः सिद्धः ।
अथ कल्पनापोढमित्यत्रापोढकल्पनमिति बहुव्रीहौ स्यादित्याह- समासाक्षेपेत्यादि [पृ०५१ पं०२] । बहुव्रीहौ निष्ठान्तं पूर्व निपततीत्यादिकावित्यर्थः । अधुना तृतीयापञ्चमीतत्पुरुषं दर्शयति कल्पनयेत्यादिना । अत्र तृतीयापक्षे कर्मणि निष्ठा । पञ्चमीपक्षे कर्तरीति बोद्धव्यम्। "न सोऽस्ति प्रत्ययो लोके यः शब्दानुगामादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यते" ॥ इति । तत्रास्तीत्यनेन संवेदनसद्भावे प्रमाणमाह; संवेद्यगतं हि शब्दसंजल्परहितमर्थसंवेदनम्। तथा चोक्तमन्यैरपि"संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना। स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मतिः ॥"[प्रमाणवा०२।१२४] इति । आलोचनज्ञानमित्यनेन बोधकत्वं प्रमाण्ये हेतुमाह; । प्रथममित्यनेनाप्यस्तित्वं निर्विकल्पकत्वं च युक्त्या साधयति । वाचकशब्दस्मरणसमनन्तरं हि सविकल्पकज्ञानमुत्पद्यते; प्रबुद्धश्च संस्कारः स्मृतिमुपजनयति; अर्थदर्शनं च संस्कारोबोधकमिष्यते । वाचकस्मरणाच्च पूर्वं यदर्थदर्शनम् , तदेव शब्दसञ्जल्परहितत्वानिर्विकल्पक शब्दसम्बन्धग्रहणाभावेन बालमूकयोरिव विज्ञानम्। शद्धवस्तुजमितीदं च शब्दसंजल्पव्युदासेनेन्द्रियजत्वसिद्ध्यार्थसामर्थ्येनोत्पन्नतां दर्शयति ।।......
एवं तावन्निर्विकल्पकस्यास्तित्वं प्रत्यक्षत्वं च सामान्यविशेषविषयत्वं च साधितम् । इदानीं सविकल्पकस्य यत् प्रत्यक्षत्वं प्रतिज्ञातम्, तत् साधयितुमाह-ततः परमिति । तत्र ततः परमित्येतेन निर्विकल्पकादुत्पन्नतां सविकल्पकस्य दर्शयति। (पुनरिति) पारम्पर्यणाप्यक्षजत्वमस्तीत्येतत् प्रदर्शयितुं बौद्धपरिकल्पितमानसप्रत्यक्षवत् वस्त्वित्यनेनार्थसामर्थ्योत्पन्नतां निर्विकल्पकवद् दर्शयति । धमैरित्यनेनार्थान्तरन्यासं निराकरोति । जात्यादिभिरित्यनेनापि शब्दाध्यासः। एतदुक्तं भवति- जात्यादिभिर्धर्मभूतैर्विशिष्टोऽर्थो ययावसीयते, न शब्दविशिष्टो नाप्यर्थान्तररूपेण। बुद्धयावसीयते इत्यनेन बोधकत्वं प्रामाण्ये हेतुमाह । सापि प्रत्यक्षत्वेन संमतेत्यनेनापि तद्भावभावित्वेनाक्षजत्वं दर्शयति ॥" इत भट्टोम्बेकविरचितायां मीमांसाश्लोकवार्तिकटीकायाम् १।१।४॥
२. "परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः [पा० २।४।२६। ८१२] एतयोः परपदस्येव लिङ्गं स्यात् । कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । अर्धपिप्पली । द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधो वाच्यः [पा०वा०] पञ्चसु कपालेषु संस्कृतः पञ्चकपालः पुरोडाश: । प्राप्तो जीविकां प्राप्तजीविकः । आपन्नजीविकः । अलं कुमार्यै अलंकुमारिः। अत एव ज्ञापकात् समासः। निष्कौशाम्बिः।"-पा० सिद्धान्तकौमुदी ।
"प्रत्यक्षमिति प्रतिगतमाश्रितमक्षम्। अत्यादयः क्रान्ताद्यर्थे द्वितीयया [पा०वा० २।२।१८] इति समासः । प्राप्तापन्नालंगतिपूर्वसमासेषु परवल्लिङ्गताप्रतिषेधात् अभिधेयवल्लिङ्गे सति सर्वलिङ्गः प्रत्यक्षशब्द: सिद्धः" इति धर्मोत्तरविरचितायां न्यायबिन्दुटीकायाम् १।३। ३. दृश्यतां पृ० ४४ पं०७ ॥
Jain Education International
- For Private & Personal Use Only
www.jainelibrary.org