________________
११८
पार्श्वदेवगणिविरचिता तस्यैव कल्पनारहितस्य वस्तुनः स्वरूपनिर्देशो यच्छब्देनोच्यते । एवंभूतं चेति [पृ०५१ पं०३] कल्पनारहितम् । अर्थ एव स्वलक्षणम् अर्थस्वलक्षणम्, तदपि अर्थस्वरूपमपीत्यर्थः । नहि ज्ञानक्षणगृहीतस्य स्वलक्षणस्यापि काचित् कल्पनास्तीति मन्यते। निर्विषयमपीति [पृ०५१ पं०४] स्वप्नादौ निर्गोचरमपीत्यर्थः । स चेत्यर्थः [पृ०५१ पं०५] ।
रूपादाविति [पृ०५१ पं०५] । रूप्यत इति रूपं दृश्यं घटादि वस्तु, तदेवादिर्यस्य गन्धादेस्तत्तथा, तस्मिन् । इह स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्रेन्द्रियपञ्चकभेदात् पञ्चधा प्रत्यक्षं समुत्पद्यते । तत्र रूपग्रहणेन सर्वजनप्रसिद्धं चाक्षुषं प्रत्यक्षमाह । आदिग्रहणेन शेषेन्द्रियप्रत्यक्षाण्यपीति भावः । नामजात्यादीत्यादि [पृ०५१ पं०७] । पञ्चस्वपि कल्पनासु द्रव्ये सत्यपि यद्यत्राधिक्येन प्रसिद्धं तत्तेनैव जात्यादिना व्यपदेशमर्हति तत्र तस्यैवाधिक्यात् द्रव्यस्य च गौणत्वादिति ।
कुतः कारणात् पुनर्नामादिकल्पनारहितं ज्ञानं प्रत्यक्षमिष्यते इत्याह- शब्दरहितेत्यादि [पृ०५१ पं०१०] । शब्देन नामजात्यादिमतो वाचकेन डित्थादिना रहितं स्वलक्षणं पुरुषगवादिकं हेतुर्यस्य प्रत्यक्षस्य तत्तथा, तस्य भावस्तत्त्वम्, तस्मात् ।।
अथ शब्दरहितस्वलक्षणहेतुकं प्रत्यक्षं कुतः सिद्धमित्याह- उक्तं चेत्यादि [पृ०५१ पं०१०] । यथा हि वह्नौ धूमो जन्यजनकसंबन्धसंबद्ध उत्तरभावेन भवति एवं नार्थे जन्यजनक संबंधसंबद्धाः शब्दा उत्तर भावेन सन्ति । एतेन तदुत्पत्तिसंबन्धः शब्दार्थयोर्नास्तीत्याचष्टे । स एवार्थ आत्मा येषां शब्दानां ते तदात्मानः, अनेन तु तादात्म्यसंबन्धोऽपि नास्तीत्याह । तस्मिन्निति अर्थे प्रतिभासमाने प्रत्यक्षेण परिच्छिद्यमाने प्रतिभासेरन् प्रदीप्येरन् शब्दा इति । अयमभिप्राय:- द्विविधो हि संबन्धः सौगतानां तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्च । तत्र तादात्म्यलक्षणो वृक्षत्व-शिंशपात्वयोरिव । तदुत्पत्तिलक्षणस्त्वग्नि-धूमयोरिव । शब्दार्थयोश्च द्विविधोऽपि संबन्धो न घटते । तथाहिन तावत्तादात्म्यलक्षणः । तादात्म्ये हि शब्दार्थयोः शब्दो वा स्यादर्थो वा, न द्वयम्, तथा शब्दार्थयोस्तादात्म्ये क्षुरिका-मोदकादिशब्दोच्चारणे मुखपाटन-पूरणादिप्रसंगः न च दृश्यते । तदुत्पत्तिलक्षणोऽपि न घटते । यतः केयं तदुत्पत्तिर्नाम ? । किं शब्दादर्थोत्पत्तिरर्थाद्वा शब्दोत्पत्तिः ? । यदि शब्दादर्थोत्पत्तिः स्यात्तदा विश्वमदरिद्रं स्याद्धिरण्यादिशब्दोच्चारणादेव तदुत्पत्तेः । नाप्यर्थाच्छब्दोत्पत्तिस्ताल्वादिकारणकलापात्तदुत्पत्तेर्दर्शनात् । किंच, ये किलातीता राम-रावणादयोऽर्थास्तेषामिदानीमभावात् कथं राम-रावणादिकः शब्दोऽर्थमन्तरेण प्रवर्तितुमर्हति। तस्मादर्थे शब्दस्य न कथंचनापि संबन्धोऽस्तीति न शब्दाकारो विज्ञाने प्रतिभासते । तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org