________________
न्यायप्रवेशकवृत्तिपञ्जिका।
११९ योऽपि च 'अर्थेन विवक्षा जन्यते विवक्षया च शब्दः' इति विवक्षया कार्यकारणभाव: शब्दार्थयोर भ्युपगतः सोऽपि संव्यवहारार्थम्, न तु तत्त्वतः । ततः शब्दार्थयोः संबन्धाभावाज्ज्ञानेन गृह्यमाणेऽर्थे शब्दाकारस्य ज्ञानेऽप्रतिभासनान्निर्विकल्पकमेव प्रत्यक्षं प्रमाणम्। प्रत्यक्षपृष्ठभावी तु विकल्पो गृहीतग्राहित्वादप्रमाणः । तथाहि- प्रत्यक्षपरिच्छिन्न एवार्थो विकल्पेन विकल्प्यतेऽतो गृहीतग्राही। परं यत्रार्थे प्रत्यक्षपृष्ठभावी विकल्प उत्पद्यते तत्रैव प्रत्यक्षस्य प्रामाण्यमिति विज्ञेयम् । तत्त्ववृत्तिरियम् । व्यवहारस्त्वेवम् । यथा रूपमात्रग्राहीन्द्रियज्ञानमुत्पद्यते । तेन च रूपसंतानमात्रं प्रवृत्तिविषयीक्रियते । तेन तेषु रूपक्षणेषु द्वितीयादिषु संव्यवहार इति ।
तदित्यनेनेत्यादि [पृ०५१ पं०१२] । यदा यच्छब्देन निर्दिष्टं यनिर्दिष्टं तस्य परामर्शः संस्पर्शः प्रत्यक्षमित्यत्र ।।
___ तत्पुरुषस्तावददुष्टोऽतः स संप्रदर्शितो वृत्तिकृता । अव्ययीभावोऽप्यदुष्ट एवातस्तं सूत्रकार उपदर्शयति- अक्षमक्षं प्रतीत्यादिना [पृ०५० पं०१४] । नन्वेवं सति प्रत्यक्षो घट: प्रत्यक्षा शाटिकेति न स्यात् । उच्यते । प्रत्यक्षज्ञानहेतुत्वात् सोऽपि साऽपि वा प्रत्यक्षः प्रत्यक्षा इत्युपचारात् पुंस्त्वं स्त्रीत्वं वा स्यात् प्रत्यक्षशब्दस्य ।
आहेत्यादि [पृ०५१ पं०१३] । विषयसामर्थ्यादपीति न केवलं स्वप्नादौ निर्गोचरमप्युत्पद्यत इत्यर्थः। तदिहार्थस्यापि ज्ञानकारणत्वाद्यथा ज्ञानं प्रत्यक्षमित्युक्तं तथा प्रत्यर्थं चेत्यपि वक्तुं युक्तमिति प्रेर्यार्थः ।
उभयोरपि साधारणासाधारणत्वं भावयति-तथाहीत्यादिना [पृ०५१ पं०१५] । अथ किमर्थ इन्द्रियविज्ञानस्य हेतुर्न भवतीत्याह-अर्थस्त्विति । मनोविज्ञानस्यापीति [पृ०५१ पं०१६] संकल्पजह दयज्ञानस्य तथा मानसप्रत्यक्षस्यापि चेत्यर्थः । अथ यद्यसाधारणमिन्द्रियमर्थस्तु साधारणस्तथाऽपि किमित्यसाधारणेनैव व्यपदेशः कृतो न साधारणेनेत्याह- असाधारणेन चेति [पृ०५१ पं०१६] । व्यपदेशस्य भणनस्य वृत्तिः प्रवृत्तिः । क्व ? यथेत्याह [पृ०५१ पं०१७] । भेरीत्यादि । भेरीशब्दोत्पत्तौ भेर्यसाधारणं कारणम् । तत्र हि पुरुषप्रयत्ननिर्वो वादनादिको व्यापारोऽस्ति । न हि तया केवलया शब्दो जन्यते । तथा क्षिति-सलिल-पवनादीन्यपि कारणानि सन्ति यवाकुरोत्पत्तौ । किंतु न तेषां व्यपदेशः साधारणत्वादन्यस्यापि युगन्धर्याद्यकुरस्य निष्पादने समर्थत्वात्तेषाम्, यव इति चासाधारणम् । अतस्तेनैव व्यपदेशः। तद् व्यपदिश्यत इति तत् प्रत्यक्षं ज्ञानम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org