________________
पार्श्वदेवगणिविरचिता
आहेत्यादि [पृ०५१ पं०१८] । तदिति मनोविज्ञानादि । अनेनेति प्रोच्यमानेन प्रत्यक्षलक्षणेन । कुतो न संगृहीतमिति चेत्, उच्यते, अक्षैर्व्यपदेशादक्षाश्रितस्यैव ग्रहणात् ततश्चाक्षाश्रितस्यैवेन्द्रियविज्ञानस्य प्रत्यक्षशब्दवाच्यता स्यात्, न मनोविज्ञान - स्वसंवेदनयोगिज्ञानानाम् । तेषामक्षानाश्रयत्वात् । तेषां चाग्रहणेऽव्यापि लक्षणं स्यात् । अत एवाहइति कथमिति [पृ०५१ पं०१९] । व्याप्नोतीत्येवं शीलं व्यापि । णिन् । तस्य भाव व्यापिता । व्यापकत्वमित्यर्थः । अव्याप्तिरपि लक्षणदोष एवोक्त इति प्रेर्यार्थः ।
१२०
उच्यत इत्यादि [ पृ०५२ पं०१] । अर्थपरिच्छेदकत्वेन साक्षात्करोति यज्ज्ञानं तदर्थसाक्षात्कारि । तस्य ग्रहणात् । अथार्थासाक्षात्कारिग्रहणे मनोविज्ञानादेः किमायातमित्याहमनोविज्ञानादेरपि इति । न केवलमिन्द्रियविज्ञानस्येत्यपेरर्थः । तदव्यभिचारादर्थसाक्षात्कारित्वाव्यभिचारात् । तदिति [ पृ०५२ पं०२] मनोविज्ञानादि ।
नन्वेवमर्थसाक्षात्कारि विज्ञानं प्रत्यक्षमित्यायातम् । अक्षमक्षं प्रति वर्तत [ पृ०५० पं०१४] इति समासश्च सूत्रकृत्प्रदर्शित इन्द्रियजमेव ज्ञानं विषयीकरोति ततः कथमर्थसाक्षात्कारिविज्ञानग्रहणेऽपि मनोविज्ञानादेः संग्रहः स्यादित्याह - लौकिकं त्वित्यादि [पृ०५२ पं०२] । इन्द्रियाश्रितमेव ज्ञानं लोके रूढं न मनोविज्ञानादि । अतस्तदेवाश्रित्याव्ययीभावः प्रदर्शितः । तर्हि मनोविज्ञानादेः स्वरूपं प्रदर्श्यताम् । नैवम् । अन्यतोऽवसेयमत एवाह- कृतं प्रसङ्गेनेति [पृ०५२ पं०३]।
अधुनाऽनुमानावसरः । तत्र यद्यपि द्विविधमनुमानं स्वार्थपरार्थभेदेन तथापि साधनाभिधानेन परार्थानुमानं प्रागुक्तम् । इदानीं स्वार्थानुमानमुच्यते । तत्र शब्दात्मकत्वात् परप्रत्तिपत्तिनिबन्धनं परार्थमुच्यते । स्वप्रतिपत्तिनिबन्धनं तु ज्ञानात्मकं स्वार्थमिति । ननु तर्हि यः शब्दोच्चारणं विनाऽर्थं न प्रतिपद्यते तस्य शब्दात्मकमप्यनुमानं स्वार्थं प्राप्नोत्यात्मप्रतीत्यर्थं शब्दस्योच्चारणात् । उच्यते । आत्मप्रतिपत्तये सर्वदैव यदुपयुज्यते तत् स्वार्थमुच्यते । शब्दात्मकं त्वात्मप्रतीतये न सर्वदोपयुज्यते । किंतु परार्थमपि तदुच्चार्यते । अतः परार्थं शब्दात्मकम् । स्वार्थं तु ज्ञानात्मकमिति । अनुमितिरनुमानमित्यनेनाग्न्याद्यवबोधाख्यं फलमनुमानशब्दवाच्यमुक्तं तत् किमित्याह- तच्च लिङ्गादर्थदर्शनमिति [पृ०५२ पं०८] । तत्र लिङ्गयते गम्यतेऽनेनार्थ इति लिङ्गम्, लीनमर्थं गमयतीति वा लिङ्गम्, पृषोदरादित्वान्निपात्यते लिङ्गशब्दः, तस्मात्, अर्थ्यत इत्यर्थो वह्न्यादि:, तस्मिन् दृष्टिर्दर्शनं
१. प्रसंगेनेत्यादि J. P. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org