________________
न्यायप्रवेशकवृत्तिपञ्जिका।
१२१ ज्ञानमर्थदर्शनम् । किंलक्षणं पुनर्लिङ्गमुक्तमित्याह- लिङ्गं पुनस्त्रिरूपमिति [पृ०५२ पं०९] । रूपशब्दो लक्षणवाची । ततस्त्रिरूपं त्रिलक्षणमित्यर्थः । तदयं भावार्थ:- साध्याविनाभाविनः पक्षधर्मत्वादित्रिरूपयुक्तात् कार्य-स्वभावाख्यलिङ्गाद्यदर्थे सामान्ये सजातीयानुगते विजातीयव्यावृत्ते वक़्यादौ ज्ञानमग्निरत्रेत्यादिरूपमुत्पद्यते तज्ज्ञानमनुमानज्ञानम्। तत्रापि प्रथम लिङ्गज्ञानं भवति तदुत्तरं च लिङ्गाल्लिङ्गिनि ज्ञानं स्यादिति विज्ञेयम् । तत्र सामान्येन साध्याविनाभावित्वस्मरणज्ञानं यत्तल्लिङ्गज्ञानम्, यथा धूमं प्रत्यक्षेण गृहीत्वा सर्वत्रायं वह्निज इति स्मरणम् । विशिष्टदेशादिसंबन्धेन यदुदेति यथाऽत्रायं धूमो वह्निज इति वह्निरत्रास्तीति वह्निविशेषज्ञानं तल्लिङ्गिज्ञानम् । तथा स्वभावहेतावपि प्रथमं साध्यनान्तरीयकं साधनं स्मर्तव्यम् । यथा कृतकत्वं नामानित्यत्वस्वभावमिति, तदेतत् सामान्यस्मरणं लिङ्गज्ञानम्, सामान्येन स्मृतमर्थं पुनर्विशेषे यदा योजयति यथेदमपि कृतकत्वं शब्दे वर्तमानमनित्यस्वभावमेवेति तदा विशिष्टस्य शब्दगतकृतकत्वस्यानित्यत्वस्वभाव-स्मरणमनुमानज्ञानम्।
नन्वनुमानलक्षणमेकेनैवोदाहरणेन चरितार्थं स्यात् किमित्युदाहरणद्वयं दत्तमित्याहउदाहरणेत्यादि [पृ०५२ पं०११] । वस्तुनः सत्ताया विधेरिति यावत् । साधनं सिद्धिर्निश्चयो भवति यकाभ्यां तौ वस्तुसाधनौ वस्तुगमकौ, कार्य-स्वभावावाख्या ययोः, तौ तथा । तौ च तौ हैतू च । ततो वस्तुसाधनौ च तौ तौ च, तयोर्द्वयम्, तस्य ख्यापनार्थं द्वावेव वस्तुसाधनौ हेतू अन्यस्त्वनुपालम्भाख्यो यो ग्रन्थान्तरेषूक्तः स प्रतिषेधहेतुरेवेति कथनार्थम्। ननु सोऽपीह किमिति नोक्तो यावता हेतुद्वयस्यैवेह चर्चा कृता । सत्यम् । एवं मन्यते । स्वभावहेतोरनुपलब्धेः पृथक्करणं कृतं ग्रन्थान्तरेष्वपि यत्तत् प्रतिपत्त्रभिप्रायवशात् । प्रतिपत्ता हि स्वभावहेतौ वस्तुप्रतिपत्त्यध्यवसायी । अनुपलब्धौ त्वभावप्रतिपत्त्यध्यवसायीति । परमार्थतस्तु प्रतिषेध्यस्याभावव्यवहारयोग्यता वस्तुभूतैव प्रदेशस्य साध्या । यतः केवलं भूतलं तज्ज्ञानं च घटाभावस्य स्वरूपं नापरोऽभावः कश्चिदित्यतः स्वभावहेतुरेवेयम् इति । अत इहानांशेन स्वभावहेतावन्तर्भावं कृत्वा हेतुद्वयस्य कार्य-स्वभावाख्यस्य चर्चनं कृतमिति ।
त्रिविधां विप्रतिपत्तिं निराकृत्याधुना फलविषयां विप्रतिपत्तिं निराकुर्वनाहउभयत्रेत्यादि [पृ०५२ पं०१२] । कथं पुनः प्रमाणस्य फले विप्रतिपत्तिरिति चेत्, उच्यते । प्रमाणं करणं प्रमितिक्रियां विना न भवति, यथा छेदनक्रियां विना न परशुः करणं स्यात्।
१. न्यायबिन्द्वादिषु । दृश्यतां पृ०७० टि०३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org