________________
१२२
पार्श्वदेवगणिविरचिता ततश्च प्रमाणात् प्रमेये रूपादौ परिच्छित्त्यादिलक्षणेन फलेन पृथग् भवितव्यम् । यथा परशोवृक्षादौ छेद्ये द्वैधीभावादिकं फलं पृथगित्यतो मीमांसकेनेन्द्रियं प्रमाणं तस्य चार्थेन संगतिर्मनसो वेन्द्रियैर्योग इत्यादि प्रमाणमिष्यते। अर्थावबोधश्च फलं हानोपादानादिकं चेति। तेन पूर्वं पूर्व प्रमाणमुत्तरम् उत्तरं फलमिति संपद्यते । तथा नैयायिकादयोऽप्येवंभूतमेव प्रमाणफलमिच्छन्ति । तदेषा प्रत्यक्षविषये फलविप्रतिपत्तिः । अनुमाने तु विप्रतिपत्तिर्यथा लिङ्गं प्रमाणं ज्ञानं फलम् । ज्ञानं प्रमाणं हानोपादानं फलमिति । तां निराकरोति- [पृ०५२ पं०१४] कुत इति, वितर्कस्यायमर्थ:- प्रत्यक्षमनुमानं च ज्ञानं प्रमाणम् । तच्च साधकतमत्वात् करणरूपम् । फलं च परिच्छित्त्यादिकं तत्साध्यत्वात् कर्मभूतम्, अनयोश्चान्यत्वं सुप्रसिद्धमिति कुतः कस्मात्तदेव ज्ञानं फलं नार्थपरिच्छित्ति-हानादिकमित्याचार्य आह- अधिगमरूपत्वात् [पृ०५२ पं०१४] । अर्थपरिच्छित्तिस्वरूपत्वात् प्रत्यक्षानुमानलक्षणस्य ज्ञानस्य । अतस्तदेव ज्ञानमर्थपरिच्छित्तिरूपं प्रमाणफलम्, एतदेव भावयति तथाहीत्यादिना [पृ०५२ पं०१४] । परिच्छेदरूपमेवार्थप्रतीतिं जनयदेव सद् ज्ञानमुत्पद्यते । न चार्थपरिच्छित्तिरूपाज्ज्ञानात् फलं पृथक् किंचिदस्ति । अत एवाह- न चेत्यादि [पृ०५२ पं०१५] । अर्थपरिच्छेदं विनाऽन्यद्भिन्नं ज्ञानस्यार्थपरिच्छित्तिरूपस्य फलमित्येवं न, किंतु तदेव परिच्छित्तिरूपं ज्ञानं फलम्, कुत इत्याह- भिन्नाधिकरणत्वादिति [पृ०५२ पं०१६] । भिन्नमधिकरणमाश्रयो यस्य. फलस्य तत्तथा । तस्य भावस्तत्त्वम्, तस्मात् । अयमर्थः- ज्ञानाद् व्यतिरिक्तं यधुच्यते फलं हानोपादानादिकं तदा तत् फलं प्रमातुरेव स्यान्न ज्ञानस्य । तथाहि- ज्ञानेन प्रदर्शितेऽर्थे हानादिकं तद्विषये पुरुषस्यैवोपजायते । अतो हानादिकस्य भिन्नाश्रयत्वान्न फलत्वं मन्तव्यमित्यादि बहु वक्तव्यम्। अत एवाऽऽह- अत्रेत्यादि [पृ०५२ पं०१६] । अथ किमिहैतावता तात्पर्य स्थितमित्याह- सर्वथेत्यादि [पृ०५२ पं०१६] । अपि तु ते एव फले । एवं मन्यते-अर्थपरिच्छेदकत्वेन विज्ञाने उत्पन्ने स्वविषयनिश्चयजनकत्वे सति समाप्तः प्रमाणव्यापार इत्यर्थपरिच्छित्तिरेव फलं न हानादिकमिति ।
आहेत्यादि [पृ०५२ पं०१७] । तद्भावाभिमतयोरिति प्रमाणभावेनाभिमतयोरित्यर्थः । यदि प्रमाणाभावः स्यात्तदानीं भवतु, चेत् प्रमाणफलसद्भावः स्थितः किमपरेण कार्यमित्याहप्रमाणाभावे चेति ।
अत्रेति [पृ०५२ पं०१८] प्रेर्ये । सव्यापारेत्यादि [पृ०५३ पं०१] । व्यापारो नाम प्रमाणस्य नीलादिवस्तुग्राहकत्वम् । ततो व्यापारयुक्तस्य प्रमाणस्य यका ख्यातिः प्रतीतिरर्थसादृश्यं ज्ञानस्याऽर्थाकारता तस्याः प्रमाणत्वमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org