________________
न्यायप्रवेशक वृत्तिपञ्जिका ।
विषयस्येवाकारो यस्य ज्ञानस्य तत्तथा [ पृ०५३ पं०५] | ग्राहकाकारस्येति [पं०५३ पृ०६] | अर्थं गृह्णातीति ग्राहकं प्रत्यक्षादिज्ञानम्, तस्याऽऽकारः सादृश्यमर्थेन सह तस्य, कोऽर्थः अर्थेन सह यत् ग्राहकसादृश्यं तस्य प्रमाणता । तथाहियस्माद्विषयाद्विज्ञानमुदेति तद्विषयसदृशमेव भवति । यथा नीलादुत्पद्यमानं नीलसदृशमित्यतोऽर्थसारूप्यमस्य प्रमाणमर्थपरिच्छित्तिश्च फलमिति ।
अन्ये त्वित्यादि [ पृ०५३ पं०६] । संश्चासौ शोभनश्चासौ इत्यर्थः, प्रमाणफलयोर्मध्ये प्रमाणं प्रति या व्यवस्था नैयत्यं तत्कारित्वाद् व्यापारस्य पूर्वोपवर्णितरूपस्य शोभनत्वम् । तस्मादिदमत्रैदंपर्यम्- यथा प्रत्यक्षस्यार्थप्रमितिः फलं न हानोपादानादिकमर्थाकारश्च प्रमाणं नेन्द्रियादिकम् । अनुमानस्यापि प्रमितिः फलमर्थाकारश्च प्रमाणमिति ।
१२३
अधुनेत्यादि [पृ०५३ पं० १२] । अर्थान्तरे इति । अन्तरं व्यवधानं विशेषश्चोच्यते । अत्र च विशेषार्थोऽन्तरशब्दो ग्राह्यः । ग्रहणकवाक्यमिति [पृ०५३ पं०१३] । गृह्यते संगृह्यतेऽर्थोऽनेनेति ग्रहणम् । करणे ल्युट् स्वार्थे च कन् । तच्च तद्वाक्यं च ग्रहणकवाक्यम् । संपिण्डितार्थग्राहकवाक्यमित्यर्थः । शब्दारूषितमिति [पृ०५३ पं०१४ ] | शब्देन घटोऽयं जलाहरणक्षमोऽयमित्याद्यन्तर्जल्परूपेण आरूषितम् संश्लिष्टं संयुक्तम् शब्दारूषितम् । तदर्थस्वलक्षणाविषयत्वादिति । तदिति ज्ञानम्, अर्थ एव स्वलक्षणं सजातीयेतरव्यावृत्तं वस्त्वर्थस्वलक्षणम्, तस्मिन्नविषयो यस्य ज्ञानस्य तत्तथा तस्य भावस्तत्त्वम्, तस्मात् । अनेन च प्रत्यक्षपृष्ठभावी विकल्पो गृहीतग्राहित्वान्न प्रमाणमित्यावेदयति । अनुमानविकल्पस्तु प्रमाणं विज्ञेयो यतो यत् सामान्यमनुमानविकल्पप्रतिभासिकारणव्यापकसंबद्धलिङ्गनिश्चयद्वाराSSयातं तत्तद्देशसंबन्धितयानधिगतमेव गृह्यत इति गृहीतग्राहित्वाभावात्तद्विषयो विकल्पः प्रमाणम् ।
स्वार्थानुमानज्ञानं हेतुपूर्वकमेव भवति । अतस्तद्विपक्षत्वात्तदाभासमपि हेत्वाभासपूर्वकमेव युज्यते । अतो दृष्टान्ताभासपदपरिहारेणानुमाना भासलक्षणमाह- हेत्वाभासपूर्वकमिति [पृ०५३ पं०१६ ] । पूर्वशब्दः कारणपर्यायः । ततो हेत्वाभासः पूर्वं कारणं
यस्य ज्ञानस्य तत्तथा ।
असिद्धादीनां स्वरूपम्, तस्मिन्ननभिज्ञो यः प्रमाता तस्य [पृ०५४ पं०४], अयमर्थःअव्युत्पन्नस्य हेत्वाभासश्रवणसंदर्शनानन्तरमनुमेये यज्ज्ञानमुत्पद्यते तदनुमानाभासमिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org