________________
१२४
पार्श्वदेवगणिविरचिता
उक्तानां न्यस्तानां शेषमुद्वरितमुक्तशेषम् [पृ०५४ पं०१०], इह दूषणस्य प्राक् साधनाभासे साधनशब्दमुपचर्य साधनाभासं वृत्तिकृता विषय उक्तः, सम्यक् साधनस्य दूषयितुमशक्यत्वात् । ततश्च दूषणलक्षणे सर्वत्र साधनशब्देन साधनाभासमेव वाच्यम् । प्रमीयते साध्यते प्रमेयमनेन हेत्वादिनेति प्रमाणं हेत्वादिवचनम्, तस्य दोषप्रकाशकानीत्यर्थः ।
अथ दूषणानीति [पृ०५४ पं०११] बहुवचनं किमर्थम् ? । एकवचनमेव निर्दिश्यतामित्याहबहुवचनेत्यादि [ पृ०५४ पं०११]। एकमेकं प्रति प्रत्येकम् । न केवलं सामान्येनाशुद्धः प्रयोग एकमेव दूषणं भवति । किंतु प्रयोगेऽशुद्धे यावन्तः प्रतिज्ञादयो दोषदुष्टास्तावन्त्येव तद्दोषोद्भावनानि पृथक् पृथग् दूषणानीति बहुवचनेन प्रतिपाद्यते । साधनदोषो न्यूनत्वं सामान्येनेति । न्यूनत्वं पक्षाद्यवयवानां यथोक्तलक्षणरहितत्वं प्रमाणबाधितत्वमिति यावत् । अयमर्थ:साधनवाक्येऽवयवापेक्षया न्यूनताया अतिरिक्ततायाश्च सभासदः पुरतोऽभिधानं यत्तत् सामान्येन दूषणम् । विशेषतस्तु पक्षदोषोद्भावनमसिद्ध-विरुद्धाऽनैकान्तिकदोषोद्भावनं दृष्टान्तदोषोद्भावनं वा दूषणमिति, एतदेवाऽऽह - पक्षदोषः प्रत्यक्षादिविरुद्धत्वमित्यादि [पृ०५४ पं०१३]। प्रकाशनमिति [पृ०५४ पं०१६ ] । प्रकाशयतीति प्रकाशनम् । कोऽर्थः ? प्रानिकप्रत्यायनमिति [पृ०५४ पं०१६] । प्राश्निकाः प्रत्याय्यन्तेऽवबोध्यन्ते प्रत्यक्षविरुद्धत्वादिकं वाद्युपन्यस्तमर्थं येन वचनजातेन प्रतिवाद्युपन्यस्तेन तत् प्रानिकप्रत्यायनं वचनजातमिदं दूषणमिति योगः ।
अथ किमिति प्रत्यक्षविरुद्धत्वा ऽसिद्धत्वादिकस्य पक्ष - हेत्वादिदोषस्योद्भावनं प्राश्निकप्रत्यायनमेव दूषणमुच्यते ? [ ग्रंथ १५००] यावतोद्भावनमात्रमेव किमिति न भवति दूषणमित्याह - न तूद्भावनमात्रमेवेति [ पृ०५४ पं०१६] । न तु वचनमात्रं निर्युक्तिकं दूषणम्। किन्त्वशुद्धसाधने वादिनाऽभिहिते प्रत्यक्षविरुद्धत्वादिकं साधनाभासदोषं युक्तिकलापेन कृत्वा प्राश्निकान् यदा प्रत्याययति तदेदमुद्भावनं दूषणं स्यादित्यर्थः । अथ प्रानिकप्रत्यायनं दूषणमित्यत्रापि प्रानिकप्रत्यायनवचनानां बहुत्वाद् दूषणानामपि बहुत्वप्रसंग: । तत उभयत्रापि बहुवचनं वक्तुं युज्यते इत्याह-- सामान्येनेत्यादि [पृ०५४ पं०१७] । दूषणजातेरनतिक्रमस्तस्माज्जातावेकवचनं संवृत्तमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org