________________
१२५
न्यायप्रवेशकवृत्तिपञ्जिका। जातित्वादिति [पृ०५५ पं०६]। जातिशब्दः सादृश्यवचनस्ततो दूषणसादृश्यात् सम्यक्साधनेऽविद्यमाना-सिद्धतादिदोषोद्भावनानि वचनानि दूषणाभासानि । यथा बौद्धेनोक्तम्- यत् कृतकं तदनित्यं यथा घटस्तथा च शब्द इति । अत्र भट्टः प्राहकिं शब्दगतं कृतकत्वमुपन्यस्तं हेतुत्वेन ? उत घटगतम्? उभयगतं वा ? । यद्याद्यः पक्षस्तदयुक्तम्, शब्दगतस्यानित्यत्वेन व्याप्तेरनुपलम्भादसाधारणानैकान्तिको हेतुरिति । अथ घटगतं तदा तच्छब्दे नास्तीत्यसिद्धता हेतोः । अथोभयगतं तदसत्, मूर्तामूर्तयोरेकधर्मताऽयोगात् । एतत् सर्वं दूषणाभासम् । कथमिति चेद्भूमादिष्वप्येवं वक्तुं शक्यत्वात्। अतोऽनुमानाभाव एव स्यात्। तथाहि - अग्निरत्र धूमाद्यथा महानस इत्यत्र विकल्प्यते- किम् अत्रेतिशब्दनिर्दिष्टपर्वतैकप्रदेशादिगतधूमोऽग्निसाधनायोपादीयते उत महानसगतः । यदि पर्वतादिगतः सोऽग्निना न व्याप्तः सिद्ध इत्यसाधारणानैकान्तिको हेतुः । अथ महानसगतस्तदा नासौ पर्वतैकदेशे वर्तते । न ह्यन्यधर्मोऽन्यत्र वर्ततेऽतिप्रसंगादित्यसिद्धो हेतुरित्येवं सम्यक्साधनेऽभूतदोषोद्भावनं दूषणाभासमेवात एवाऽऽह- संपूर्णसाधने न्यूनत्ववचनर्मित्यादि [पृ०५४ पं०१९] । किमित्येतानि दूषणाभासानि यावता सम्यग्दूषणान्यपि किमिति न भवन्तीत्याह- न ह्येभिरिति [पृ०५५ पं०२] । न नैव हि: यस्मादेभिरशुद्धपक्षादिवचनैः कृत्वा परपक्षः पराभ्युपगमः शुद्धपक्षादिस्वरूपो दूष्यते दुष्ट: कर्तुं शक्यते वादिना, निर्दोषत्वात् पराभ्युपगमस्य । उपरम्यते [पृ०५५ पं०३] स्थीयते ।
तत्स्वरूपेति [पृ०५५ पं०१४] । तस्य शास्त्रस्य स्वरूपं स्वभावस्तत्स्वरूपम्, तस्य प्रतिपादनायेति। अन्वयव्यतिरेकलक्षणेति [पृ०५५ पं०१६] । साधर्म्य-वैधर्म्यवच्छुद्धसाधनप्रयोगस्य लक्षणाभिधायिकेत्यर्थः।
इदानीं शास्त्रमुपसंहरन्नाशीर्वादमाह - न्यायेत्यादि [पृ०५५ पं०१९] । इह जगति न्यायप्रवेशकं व्याख्याय मया यत् पुण्यमाप्तं प्राप्तम्, तत्र पुणति शुभीकरोति पुनाति वा पवित्रीकरोति आत्मानमिति पुण्यं शुभकर्म, तेन पुण्येन, किमित्याह न्यायस्याधिगमः परिज्ञानम्, तेन यत् सुखं तस्य रसः प्रकर्षावस्था तं लभतां प्राप्नुयात् । भव्यो मुक्तिगमनयोग्यो जनो [पृ०५५ पं०२०] लोक इति । इति न्यायप्रवेशपञ्जिका समाप्तेति ॥
१. 'मित्याह J.। अस्मिन् पाठभेदे °मिति। आह- इति पदयोजना कार्या ॥ २. पुण कर्मणि शुभे पा० धा०१३३४। पूञ् पवने पा० धा० १४८३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org