SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १२६ पार्श्वदेवगणिविरचिता न्यायप्रवेशशास्त्रस्य सद्वृत्तेरिह पञ्जिका । स्वपरार्थं दृब्धा स्पष्टा पार्श्वदेवगणिनाम्ना ॥१ i ग्रहरसरुद्रैर्युक्ते विक्रमसंवत्सरेऽनुराधायाम् । कृष्णायां च नवम्यां फाल्गुनमासस्य निष्पन्ना ॥२॥ न्यायप्रवेशविवृतेः कृत्वेमां पञ्जिकां यन्मयाऽऽप्तम् । कुशलमिह तेन लोको लभतामवबोधफलमतुलम् ॥३॥ यावल्लवणोदन्वान् यावन्नक्षत्रमण्डितो मेरुः । खे यावच्चन्द्रार्कौ तावदियं पञ्जिका जयतु ॥४॥ १. एतत्पर्यन्त एव J मध्ये पाठः । ग्रहरस इत्यादि पाठ: C मध्येऽस्ति, Oriental Institute, Baroda त: 1930 A. D. वर्षे प्रकाशितायां न्यायप्रवेशकवृत्तेः पञ्जिकायामप्यस्ति ॥ २ इतः परं C मध्ये ईदृश: पाठ:छ॥६०३॥छ॥ संवत् १३१८ वर्षे माघ शुदि १रवौ अद्येह श्रीमत्पत्तने लिखितेति ॥ C. ॥ इतः परं Baroda त: प्रकाशिते P ग्रन्थे ईदृशः पाठःशुभमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं सर्वत्र सुखी भवतु लोकः ॥५ ॥ इति श्रीशीलभद्रसूरिशिष्यसुगृहीतनामधेय श्रीमद्धनेश्वरसूरिशिष्यैः सामान्यावस्थाप्रसिद्धपण्डितपार्श्वदेवगण्यभिधानैर्विशेषावस्थावाप्तं श्रीचन्द्रसूरिनामभिः स्वपरोपकार्थं दृब्धा विषमपदभञ्जिका न्यायप्रवेशकवृत्तेः पञ्जिका परिसमाप्तेति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002682
Book TitleNyayapraveshakashastram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2009
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy