________________
११०
पार्श्वदेवगणिविरचिता मध्यपदलोपितृतीयातत्पुरुषं केचिद्विदधते तमेवाह- अन्ये त्वित्यादि [पृ०४४ पं०९] । न चैतदिति । प्राचीने उत्तरे सति नातिश्लिष्टमिदं व्याख्यानमित्यर्थः । एवमिति । साध्यं च उभौ च साध्यसाधनरूपौ साध्योभये । समासे सत्युभयेति व्यवतिष्ठते । उभः स्वद्विवचने[ ] इति वचनात् । सूत्रस्य चायमर्थः- उभ इति प्रयुज्यते स्वद्विवचन एव, स्वद्विवचनाभावे उभय इत्येव प्रयुज्येत । ततः साध्योभये धर्मा असिद्धा [पृ०४४ पं०११] ययोदृष्टान्तयोस्तौ तथा, तयोरपि भावनीयमिति समासादिकम् ।
अवसर: प्रस्तावः तं प्राप्तः, अवसरो वा प्राप्तो यस्येति विग्रहः [पृ०४४ पं०१२] । निर्दिश्यत इति । उदाहरणमिति शेषः ।
अथ यदि साधर्म्यदृष्टान्तोऽगमकः संजातस्तर्हि वैधHदृष्टान्तः 'नित्यत्वाभावे न भवत्येवामूर्तत्वम्, यथा घटे, न च तथा शब्दः, तस्मान्नित्यः' इति साध्यसिद्धये उपादीयतामन्वयव्यतिरेकयोरन्यतरेण साध्यसिद्धेरिति चेत्, आह - एतदाभासानामिति [पृ०४५ पं०८] साधर्म्यदृष्टान्ताभासानामिति ।
अथ यदि साधनधर्मासिद्धोऽयं तथाप्याभासता कथमस्येत्याह- अयं चेति [पृ०४५ पं०८] साध्यसाधने च ते धर्मों च ताभ्यामनुगतो युक्तः स तथा । इह त्विति [पृ०४५ पं०९] प्रस्तुतप्रयोगे । अन्त्यं पर्यन्तभूतं तच्च तत् कारणं च परमाण्वाख्यमन्त्यकारणम् [पृ०४५ पं०१०], तस्य भावस्तत्त्वं तेन । अयमत्र भावार्थ:- कार्यं समवायिकारणपूर्वकं तत्कारणमप्यन्यसमवायिकारणपूर्व कमिति यावदाद्यं व्यणुक रूपं कार्यं तदपि समवायिकारणजन्यमिति तजनकं परमाण्वाख्यमेवान्त्यं कारणम् । तच्च नित्यम्, अन्यथा सर्वस्य कार्यस्य विनाशे समवायिकारणाभावात् पुनः कार्यस्योत्पत्तिर्न स्यादिति नित्यपरमाणुकारणैर्यणुकादिप्रक्रमेण कार्यमारभ्यते । तस्मादन्त्यकारणत्वेन नित्या अणव इति । अथ परमाणूनामयोगिभिः प्रत्यक्षेणाग्रहणात् कथं तन्मूर्तत्वं निश्चीयत इत्याहमूर्तत्वं चेति [पृ०४५ पं०११] । मूर्तं यत्तत्कार्यं परमाणुनिष्पन्नघटादि तस्योपलब्धेर्दर्शनात् । तथा चोक्तं परमाणुलक्षणं यथा
कारणमेव तदन्त्यं नित्यो मूर्तश्च भवति परमाणुः ।
एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥ [ ] इति । स्पर्शद्वयं चाविरुद्धमेवाणौ भवतीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org