________________
न्यायप्रवेशकवृत्तिपञ्जिका। सामान्येन सत्प्रत्ययस्तदपि सत्प्रत्ययविषयं ततस्तत्राप्यन्येन सत्प्रत्ययः तत्राप्यन्येनेत्यनवस्था। तथा समवायेऽपि । समवायस्यैकत्वात् समवाये सामान्ययोजकस्यापरसमवायस्याभावात् कथं सामान्यवशात् सत्प्रत्ययः । विशेषेष्वपि न सामान्यसंबन्धोऽस्ति। समानानां हि भाव: सामान्यम् । तच्च साधारणं रूपम् । विशेषाणां च विसदृशरूपत्वात् कथं ते समानरूपा भवितुमर्हन्ति ? विशेषत्वायोगप्रसङ्गात् । किञ्च, विशेषेषु सत्तासंबन्धे तेषां समानरूपत्वात् संशयोत्पत्तौ निर्णयार्थमन्यो विशेषः । तत्राप्यन्यसत्तासम्बन्धे सति संशयविषयत्वादन्यो निर्णयार्थं विशेषो वाच्य इत्यत्राप्यनवस्थैव प्रसज्यते । इति न सामान्यस्य तेष्वपि योग इति । तस्माद् गौण एव सत्प्रत्ययः सामान्यसमवायविशेषेष्वित्यलं प्रसङ्गेन । विस्तरार्थिना तु व्योमटीकादि निरीक्षणीयम् ।
प्रकृतमनुस्रियते- तथाहीत्यादि [पृ०४३ पं०१२] । अयं प्रयोगार्थ:- यथा द्रव्यत्वं नवसु द्रव्येषु वर्तमानमपि न सत्प्रत्ययकर्तृ एवं भावोऽप्येकैकस्मिन्द्रव्ये वर्तमानो न सत्प्रत्ययकर्तेति। अथ द्रव्यत्वं सत्प्रत्ययकर्तृ स्यात् ततस्तद्बलेन भावोऽपि सत्प्रत्ययकर्ता स्यादित्याह- न चेति [पृ०४३ पं०१४] । न सत्प्रत्ययकर्तृ न सद्बुद्ध्युत्पादकम् ।
एवमिति [पृ०४३ पं०१४] । गुण-कर्मणो वौ, तौ च तौ हेतू च, तयोरपि विषये वाच्यम् । यथा न सत्प्रत्ययकर्ता भावो गुणेषु भावात् गुणत्ववत् तथा कर्मसु भावात् कर्मत्ववत् । न च गुणत्वं कर्मत्वं च सत्प्रत्ययकर्तृ । गुणप्रत्यय-कर्मप्रत्ययकर्तृत्वादिति । उभयत्रेति [पृ०४३ पं०१५] द्रव्यादिनिषेधेऽसत्प्रत्ययकर्तृत्वे च गमकत्वादित्यर्थः । आक्षेपेत्यादि [पृ०४३ पं०१५], आह-अयमसिद्धान्न विशिष्यत इत्याधुक्तावत्र बहु वक्तव्यमित्येतत्पर्यन्तौ सौँ द्रष्टव्यौ ॥
सांप्रतमित्यादि [१०४३ पं०१७] । तत्रेत्येवं सति [पृ०४३ पं०१८] । तत्र साधर्म्यणेति [पृ०४४ पं०४] । तत्र तयोः साधर्म्यवैधर्म्यदृष्टान्ताभासयोर्मध्ये । साधनं चासौ धर्मश्च साधनधर्मः । क इत्याह- हेतुरिति [पृ०४४ पं०६]
वाऽऽहितेत्यादि [पृ०४४ पं०८] । आहिताग्निप्रभृतिषु शब्देषु विकल्पेन बहुव्रीहौ पूर्वनिपातो भवतीत्यर्थः । अथायं तत्र न दृश्यते, अतस्तदवस्थमेव प्रेर्यमित्याहआहितेत्यादि। विकल्पवृत्तेरिति । पूर्वनिपातनस्य विकल्पेन प्रवर्तनादित्यर्थः ।
१. दृश्यतां पृ. ३९ पं०५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org