________________
पार्श्वदेवगणिविरचिता
सत्प्रत्ययकर्तृत्वं विशेष एवेति । संद् द्रव्यमिति च प्रतीतिः सनिबन्धनैव । अत्र प्रयोगःसद् द्रव्यमिति प्रत्ययो धर्मी, विशिष्टप्रत्ययनिबन्धन इति साध्यम्, अबाध्यमानप्रत्ययत्वादिति हेतुः । यो योऽबाध्यमानप्रत्ययः स स विशिष्टप्रत्ययनिबन्धनः । यथा नीलादिप्रत्ययः । अबाध्यमानप्रत्ययश्च सद् द्रव्यमिति प्रत्ययः । तस्माद् विशिष्टप्रत्ययनिबन्धन इति । एवं सन् गुणः सत् कर्मेति प्रत्ययावपि सनिबन्धनावेव । निबन्धनं चास्य भाव एव ।
१०८
अतः सत्तासंबन्धेन द्रव्यगुणकर्मस्वेव सत्प्रत्ययः प्रवर्तते । सामान्य- समवायविशेषेष्वपि यद्यपि सत्प्रत्ययोऽस्ति तथापि स गौणः । न तु महासामान्यवशात् । किन्तु त्रिष्वेव तद्वशात् सत्प्रत्ययो मुख्यः । अथ यथा गौणोऽपि तेषु सत्प्रत्ययः प्रवर्तते एवं द्रव्यगुण-कर्मस्वपि भविष्यति इति किं सत्तासंबन्धादभ्युपगम्यते ? | सत्यम् । मुख्यो ह्यर्थो यदा सत्प्रत्ययवानभ्युपगतो भवति तदा गौणप्रत्ययवान् सिध्येन्नान्यथेति । यथा सिंहाख्ये वस्तुनि मुख्ये सति तद्गुणाध्यारोपान्माणवकेऽपि सिंहाध्यारोपो युज्यते नान्यथेति ।
अथ तर्हि सामान्य- समवाय- विशेषेष्वपि सामान्यवशादेव सत्प्रत्ययः किमिति नेष्यते ? नैवम् । सामान्येऽपरसामान्यायोगात् । अनवस्थादोषप्रसङ्गात् । तथाहि - सामान्ये येन
१. "सदिति यतो द्रव्यगुणकर्मसु ॥१ ॥ २ ॥७। भिन्नेषु द्रव्यादिषु त्रिषु यतो जायते 'सत् सत्' इति बुद्धिः सा सत्ता। आश्रयविनाशादस्याः विनाश इति चेत्, न, यतः द्रव्य-गुण-कर्मभ्योऽर्थान्तरं सत्ता १ ।२ १८ । यस्माद् द्रव्यादिभ्यो व्यतिरिक्ता सत्ता, तस्मान्न द्रव्यादिविनाशे सत्ता विनश्यतीति । द्रव्यादिव्यतिरेके युक्तिः - एकद्रव्यवत्त्वान्न द्रव्यम् ।१ ।२ ।९। परमाण्वाकाशादिद्रव्यमद्रव्यं कारणद्रव्याभावात् अनेकद्रव्यं वा घटादि समवायिकारणद्रव्ययुक्तवात्, सत्ता पुनः प्रत्येकं परिसमाप्त्या वर्तमाना एकद्रव्यवत्त्वान्न द्रव्यम् । गुणकर्मसु च भावान्न कर्म न गुणः । १ । २ १९० गुणानां गुणेष्ववृत्तेः कर्मसु च कर्मणाम्, गुणेषु कर्मसु च सत्ताया वर्तमानत्वान्न गुण-कर्मणी सत्ता । सामान्यविशेषाभावाच्च १२ । ११ । यदि सत्ता द्रव्यादीनामन्यतमा स्यात् एवं द्रव्यादिष्विव सत्तायामपि द्रव्यत्वादयः सामान्यविशेषा वर्तेरन् । न चैवम् । तस्मान्न सत्ता द्रव्यगुणकर्माणि । एकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् ।१ २ ।१२ । यथा प्रतिद्रव्यं साकल्येन वर्तमानत्वान्न द्रव्यं सत्ता तथैकद्रव्यवत्त्वान्न द्रव्यं द्रव्यत्वम् । सामान्यविशेषाभावेन च । १ । २ । १३ । द्रव्यादिष्विव द्रव्यत्वादीनां मध्यात् कश्चित् सामान्यविशेषो द्रव्यत्वे वर्तेत यदि [ द्रव्यत्वं ] द्रव्यं गुणः कर्म वा स्यात् । तस्मान्न द्रव्यादीनि द्रव्यत्वम् ।... गुणे भावाद् गुणत्वमुक्तम् ।१ । २ । १४ । गुणेषु गुणानामवृत्तेः, गुणत्वं च गुणेषु वर्तते, तस्मान्न गुणः । सामान्यविशेषाभावेन च । १ । २ । १५ । यदि गुणत्वं द्रव्यं कर्म वा स्यात् तस्मिन् द्रव्यत्वं कर्मत्वं वा सामान्यविशेषौ स्याताम् । न चैवम् । तस्मान्न द्रव्यं कर्म वा गुणत्वम्... कर्मणि भावात् कर्मत्वमुक्तम् ।१ । २।१६। कर्मणि कर्मत्वस्य वृत्तेः कर्मणः कर्मणि चावृत्तेर्न कर्म कर्मत्वम् । सामान्यविशेषाभावेन च । १ ।२।१७। द्रव्यत्वं गुणत्वं वा कर्मत्वे स्यातां यदि द्रव्यं गुणो वा स्यात् । तस्मान्न द्रव्यगुणौ कर्मत्वम् । इति चन्द्रानन्दविरचितवृत्तिसहिते वैशेषिकसूत्रे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org