________________
१०७
न्यायप्रवेशकवृत्तिपञ्जिका। शुद्धाभ्युपगमस्तत्रायमप्यस्माभिर्विरुद्धो हेतुर्वक्तुं शक्यते । यथाऽयमनित्यत्वं साधयति तथा तद्विपरीतं पाक्यत्वादिकमपि साधयति । तथाहि-एवमपि वक्तुं शक्यते – यथा कृतकत्वाद् घटवदनित्यस्तथा कृतकत्वाद् घटवत् पाक्योऽपीति । न चेदमिष्यत इति प्रेर्यार्थः । नेत्यादि [पृ०४३ पं०३] । विरोधिनः पाक्यत्वादेर्धर्मस्य । अधिकृतो हेतुः कृतकत्वादिस्तेनाऽन्वितं युक्तं यद् दृष्टान्तान्तरं पटादिकं तस्य बलं तेनैव निवृत्तेविरुद्धदोषस्य ।।
एनमेवार्थं भावयति तथाहीत्यादिना [पृ०४३ पं०४] । तनिवृत्त्या [पृ०४३ पं०५] विरुद्धधर्मनिवृत्त्या । इत्थं च तन्निवृत्तिः- यतो न यत् कृतकं तत् सर्वं पाक्यमयं भवति यथा पट इति । अस्तु तर्हि पटवत्तन्तुमयोऽपि शब्द इति । यदि पटेऽप्युपन्यस्ते पटगततन्तुमयत्वादिविरुद्धधर्मापादनं करोति तदा लगुडादिकमपरं दृष्टान्तान्तरमुपन्यसनीयम् । न च परासञ्जितविरुद्धधर्माणामपरापरदृष्टान्तत एकां द्वे तिस्रो वा वारा निराकरणे विहिते परोऽप्यपरापरोपन्यस्तदृष्टान्तगतधर्मयोजनां कर्तुमलं यदि परमुन्मत्त एव न स्यात् ।
__ अथ यदि दृष्टान्ताभावतः क्षोभाद्वा तन्निवृत्तिं कर्तुं न शक्नोति तदा का वार्ता ? इत्याह- अनिवृत्तौ चेति [पृ०४३ पं०६] यदि दृष्टान्तान्तरसामर्थ्यात् तन्निवृत्त्या विरुद्धत्वं न भवति तर्हि प्रस्तुतप्रयोगेऽपि तन्निवृत्तिः करिष्यते इत्याशङ्कयाह- अशक्या चेति [पृ०४३ पं०६], इहेति प्रयोगे तन्निवृत्तिः विरुद्धधर्मनिवृत्तिः । कुत इत्याह - एकद्रव्यवत्त्वस्य हेतोः तव्यतिरेकेणेति अभावत्वसाधकं द्रव्यत्वाख्यं दृष्टान्तं मुक्त्वा अन्यत्रेति दृष्टान्तान्तरे भावस्य द्रव्यादन्यत्वसाधकेऽवर्त्तनादिति।
धर्मीत्यादि [पृ०४३ पं०८] । इह सद् द्रव्यमिति प्रतीतेरेकैकद्रव्ये वर्त्तनं भावस्य विज्ञायते । एकैकद्रव्ये वर्त्तनाच्च द्रव्यादन्यत्वं भावस्य वैशेषिकेण साध्यते । ततो भावस्य
१. "तथा स्वभावहेतोः प्रयोगः ॥१०॥ यत् सत् तत् सर्वमनित्यम्, यथा घटादिरिति शुद्धस्य स्वभावहेतोः प्रयोगः ॥११॥ यदुत्पत्तिमत् तदनित्यमिति स्वभावभूतधर्मभेदेन स्वभावस्य प्रयोगः ॥१२॥ यत् कृतकं तदनित्यमिति उपाधिभेदेन ॥१३॥ अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति ॥१४॥ एवं प्रत्ययभेदभेदित्वादयो द्रष्टव्याः ॥१५॥" इति न्यायबिन्दौ तृतीये परिच्छेदे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org