________________
१०६
पार्श्वदेवगणिविरचिता
काश्चिदेव जातिबुद्धेर्निमित्तम् । ननु यद्यनुगताकारा बुद्धिर्व्यक्तिनिबन्धना तथा सति यथा खण्डमुण्डव्यक्तिदर्शने गौगौरिति प्रतिपत्तिरुदेति तथा गिरिशिखरादिदर्शनेऽपि गौर्गौरित्येकाकारा बुद्धिरुत्पद्यताम्, नैवम्, भेदाविशेषेऽपि खण्डमुण्डादिव्यक्तिषु गौगौरित्येकाकारी मतिरुदयन्ती समुपलभ्यते इति ता एव तां समुपजनयितुं समर्था इत्यवसीयते । न पुनर्गिरिशिखरादिषु गौर्गौरिति मतिर्दृष्टेति न गिरिशिखरादयस्तन्निबन्धनम् । यथाऽऽमलकीफलादिषु यथाविधानमुपयुक्तेषु व्याधिविरतिलक्षणं फलमुपलभ्यत इति तान्येव तद्विरतौ समर्थानीत्यवसीयते न पुनस्त्रपुषी - दध्यादीनि भेदाविशेषेऽपि ।
अथ भिन्नेषु भावेषु सत्सदिति मतिरस्ति सत्सदिति ज्ञानजननैकत्वमेव च जाते रूपम् । तदसत् । तदेकत्वं घटपटादिषु किमन्यदुतानन्यत् । न तावदन्यत्, तस्याप्रतिभासनात्। नाप्यनन्यत्, एकरूपाऽप्रतिभासनात् । न हि घटस्य पटस्य चैकमेव रूपं प्रतिभाति । सर्वात्मना प्रतिद्रव्यं भिन्नरूपदर्शनात् । तस्मादप्रतीतेरभिन्नापि जातिर्नास्ति इति बुद्धिरेव तुल्याकारप्रतिभासा सत्सदिति शब्दश्च दृश्यत इति बुद्धिरेव भिद्यते । प्रत्यक्षाग्रहणे च भावस्य तत्पूर्वकत्वादनुमानप्रवृत्तेस्तद्ग्राह्यापि जातिर्न । इत्यलं प्रपञ्चेन ।
सत्यमित्यादि [पृ०४२ पं०२२] | एवं मन्यते - अस्मान् प्रत्याश्रयासिद्ध एवायम् । परं येषां भावाख्यं वस्त्वस्ति तेषां भावस्य द्रव्यादन्यत्वसाधनेऽयं हेतुः प्रसिद्ध एव । ततः परेषां सिद्धोऽपि सन् विपक्षमात्रव्यापी यो हेतुर्भवति स विरुद्ध उच्यत इति निदर्शनपरमेतत् ।
ननु तथापि कथं निदर्शनार्थत्वम् ? यतो योऽसिद्धो भवति सोऽसिद्ध एव । कथं विरुद्धताख्यो दोषो द्वितीयस्तस्य स्यादित्याह - एकस्मिन्निति [ पृ०४३ पं०१], अनेकाश्च ता दोषजातयश्च तासामुपनिपातो ढौकनं तस्मात् । तेनाऽनेकदोषजात्युपनिपातेन भेदस्य नानात्वस्य दर्शनार्थत्वादेकस्मिन्नपि हेतावसिद्धताविरुद्धतालक्षणा दोषा बहवो भवन्तीति निदर्शनपरमेतद् विरुद्धभणनमित्यर्थः ।
आहेत्यादि [ पृ०४३ पं० २ ] । द्रव्यत्वादिदृष्टान्ततो यदि विरुद्धधर्मयोजना भवद्भिरत्र क्रियत इत्यर्थः। विरुद्धविशेषभावादितीति [पृ०४३ पं०३ ] । विशेषेण विरुद्धस्तस्य भावात्। अयमत्र भावार्थ:- सर्वस्यापि हेतोर्विशेषविरुद्धधर्मयोजनायां दृष्टान्तवशेन क्रियमाणायां विरुद्धत्वमेव स्यात् । तथाहि - अनित्यः शब्दः कृतकत्वाद् घटवदिति योऽयं भवतां १. बुद्धिरु ॥ २. चैकरूपं C. P॥ ३ विशेषविरुद्ध इति समीचीनं भाति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org