________________
न्यायप्रवेशक वृत्तिपञ्जिका ।
१०५
एवमिति [पृ०४२ पं०१६ ] यथैतद्वक्तुं शक्यत इत्यर्थः । तदेवाह - न गुण इत्यादि । अत्रापीति [पृ०४२ पं०१६ ] | एवं भावस्य गुणनिषेधप्रयोगेऽपीदमपि वक्तुं शक्यते । तदेवाह भाव इत्यादि ।
अथेह विपक्षवृत्तित्वं यत् सामान्यं विरुद्धलक्षणं तत् कथमुपपद्यते येनायं विरुद्धः स्यादित्याह— सामान्येत्यादि, भावस्य वैशेषिकेण प्रतिष्ठितस्य द्रव्यादीनां पृथग्भूतस्य पदार्थस्य विपक्षो द्रव्यत्वादिकं सामान्यविशेषस्तस्य भावस्तत्त्वं तस्मात् । किमुक्तं भवति ? । भावविपक्षो ह्यभावः सामान्यविशेषरूपस्तत्रैव वृत्तिदर्शनादुपपद्यत एव विरुद्धलक्षणता ।
आहायमित्यादि [पृ०४२ पं० २०] । द्रव्यादीन्येव विविक्तपरमाणुक्षणक्षयिलक्षणानि स्वलक्षणानि भावः, न तु तदतिरिक्तः कश्चन भावोऽस्तीत्यर्थः । तस्याद्रव्यादिभिन्नस्य भावस्याभावस्तदभावस्तस्मात् [ पृ०४२ पं०२२] । कथं पुनर्द्रव्यादिव्यतिरिक्तो भावाख्यः पदार्थो नास्तीति चेत्, उच्यते- तस्य विचारभारगौरवाक्षमत्वात् । तथाहि - भावः स्वयं सन् असन् वा । यद्यसन् कथं तद्योगाद्वन्ध्यासुतादेरिवापरस्य सत्त्वम् । अथ सन् तर्हि स्वतोऽन्यसत्तातो वेति द्वयी कल्पना । तत्र यदि स्वतः सत्त्वं भावस्य तदा पदार्थानामेव स्वंत एव सत्त्वं स्यादिति व्यर्थं तत्परिकल्पनम् । अथान्यसत्तातस्तर्हि तस्याप्यन्यतस्तस्याप्यन्यत इत्यनवस्था । किंच, यदि स्वत एव सन् भावोऽभ्युपगम्यते तदा प्रमाणं वक्तव्यम् । तत्र न तावत् प्रत्यक्षग्राह्योऽसाविति वाच्यम् । यतो न व्यक्तिदर्शनवेलायां स्वरूपेण बहिर्ग्राह्याकारतयाऽसौ प्रतीतिमवतरन्नुद्भाति । न हि घटपटवस्तुद्वयप्रतिभाससमये तदैव घटादिव्यवस्थितमूर्तिर्भिन्नोऽभिन्नो वा भाव आभाति । तदाकारस्यापरस्य ग्राह्यतया बहिस्तत्राप्रतिभासनात् । बहिर्ग्राह्यावभासश्च बहिरर्थव्यवस्थाकारी नान्तरावभासः । यदि त्वान्तरोऽपि प्रतिभासोऽर्थव्यवस्थाकारी स्यात्तथा सति हृदि परिवर्तमानवपुषः सुखादेरपि प्रतिभासाद् बहिस्तद्व्यवस्था स्यात् । न चेदमनुभूयते । अथ सुखादिराकारो बाह्यरूपतया न प्रतिभातीति न बहिरसौ, जातिरपि तर्हि न बहीरूपतया प्रतिभातीति न बहीरूपा - ऽभ्युपगन्तव्या । एवं च बुद्धिरेव केवलं घटपटादिषु प्रतिभासमानेषु सत् सदिति तुल्यतनुराभाति न तु व्यक्तिव्यतिरिक्तं भावमुद्योतयति, यदि तर्हि न बाह्या जातिः अस्ति, बुद्धिरपि कथमेकरूपा प्रतिभाति, नहि बहिर्निमित्तमन्तरेण एकाकारा सोत्पत्तिमती युक्ता । ननु केनोच्यते बहिर्निमित्तनिरपेक्षा जातिमतिरिति । किंतु बहिर्जातिर्न निमित्तम्। बाह्याश्च व्यक्तयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org