________________
१०४
पार्श्वदेवगणिविरचिता जनकमित्यद्रव्यमाकाशादयो नित्यद्रव्यमिति यावत् । तथाऽनेकं द्रव्यं जनकमस्येत्यनेकद्रव्यम्। अनेकद्रव्यजन्यं कार्यरूपमनित्यद्रव्यमित्यर्थः । किं तदनेकद्रव्यमित्याह- द्वयणुकादयः स्कन्धा इति [पृ०४१ पं०१७] । द्वाव परमाणू यस्य स्कन्धस्य स व्यणुकः । शेषाद्वेति कन् । व्यणुक आदिर्येषां ते च ते स्कन्धाश्चेति विग्रहः । अनेन पृथिव्यादिद्रव्यचतुष्कं कार्यरूपं व्यणुकादिक्रमेण निष्पन्नमनित्यं द्रव्यमुक्तम् ।
एकद्रव्यं त्विति [पृ०४१ पं०१७] । वीप्साप्रधानोऽयं द्रष्टव्यः । ततश्चैकमेकैकं द्रव्यमाश्रयभूतं यस्य द्रव्यत्वस्य भावाख्यस्य वा वस्तुनः तदेकद्रव्यम् । एकद्रव्यवांश्चेति [पृ०४१ पं०१८] । एकैकस्मिन् द्रव्ये वर्तमानश्च भाव इत्यर्थः । अथ किंरूपोऽसौ सामान्यविशेष इत्याह- स चेत्यादि [पृ०४१ पं०१९] । कथं पुनर्द्रव्यत्वादे: सामान्यविशेषता सिध्यतीत्याहद्रव्यत्वं हीति [पृ०४१ पं०१९] । एवमिति । यथा गुणत्वमपि चतुर्विंशतिगुणेषु वर्तमानत्वात् सामान्यं द्रव्यकर्मभ्यो व्यावृत्तत्वाद्विशेष: तथा कर्मत्वमपि पञ्चसु वर्तमानं सामान्यं द्रव्यगुणेभ्यश्च व्यावृत्तत्वाद्विशेषः । एतेन सामान्ययोगात्तदेव द्रव्यत्वं सामान्यं विशेषयोगाच्च तदेव विशेषः। तत: तुल्याधिकरणत्वात् कर्मधारयः । अन्यथोभयोर्विरुद्धधर्मत्वात् सामानाधिकरण्याभावात् कर्मधारयो न स्यात् । तेनेति [पृ०४२ पं०१] सामान्यविशेषेण तुल्यं भावाख्यं वस्तु वर्तते इति तद्वत् । तेन तुल्यं क्रिया चेद्वतिः [ पा० ५-१-११५] इत्यनेन वतिरिह । प्रयोगश्च यथान द्रव्यं भाव एकद्रव्यवत्त्वात् । यद्यदेकद्रव्यवत्तत्तन्न द्रव्यम्, यथा द्रव्यत्वम् । एकद्रव्यवांश्च भावः । तस्मान्न द्रव्यम् । अपि तु द्रव्याद्भिन्नः पदार्थः ।
ततश्चैतदुक्तं भवतीत्यादिना [पृ०४२ पं०२] प्रयोगतात्पर्यमाह । एवं भावोऽपि नवस्वपि द्रव्येषु प्रत्येकं वर्तमानो द्रव्यं न भवति । किंतु सद् द्रव्यमिति प्रतीतेर्भाव एव द्रव्यात् पृथक्पदार्थ इत्यर्थः । एवं भावस्य गुणत्वकर्मत्वनिषेधको प्रयोगावपि गुणकर्माभिधानेन वाच्यौ। निर्गुणत्वं च गुणानां निष्कर्मत्वं च कर्मणांगुणादीनांपञ्चानामपि निर्गुणत्वनिष्क्रियत्वे [ प्रशस्तपाद॰] इति वचनादुच्यते। ननु न कर्म न गुणो भाव इति क्रमेणोपन्यस्य किमिति हेतूपन्यासे कर्माऽतिलचय गुणस्य प्रथमं निर्देशः कृत इत्याह- व्यत्यय इत्यादि [पृ०४२ पं०९] ।
तेनापीति अभावत्वेन [पृ०४२ पं०१२] । भावाभावे चेति [पृ०४२ पं०१३] । महासामान्यतिरस्करणे च कर्तव्ये इत्यर्थः। एवमिदमपि [पृ०४२ पं०१३] इति । भावः सत्ता भाव एव महासामान्यमेव न भवति किन्त्ववान्तरसामान्यमेव स्यात् । अथ द्रव्यत्वं द्रव्येषु वर्तमानं भावः स्यात्तेन सत्तापि सेत्स्यतीति चेदाह- न चेति [पृ०४२ पं०१५] ।
१. ८९१ शेषाद् विभाषा ५/४/१५४ ॥ इति पाणिनीयव्याकरणे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org