________________
न्यायप्रवेशकवृत्तिपञ्जिका।
१०३ तथेह प्रकृतोपयोगिपदार्थस्वरूपमेव यद्यपि निरूपितं तथापि द्रव्यादिसूत्रे विशेषसमवाययोरपि निर्दिष्टत्वात् तत्स्वरूपमपि प्रस्तावादुच्यते, यथा- नित्यद्रव्यवृत्तयोऽन्त्या विशेषाः । तथाहि- विनाशारम्भरहितेषु नित्यद्रव्येष्वण्वाकाशकालदिगात्ममनःसु प्रतिद्रव्यमेकशो वर्तमाना अत्यन्तव्यावृत्तबुद्धिहेतवो विशेषाः । अयमर्थः- यथा अस्मदादीनामश्वादिभ्यो गवादिषु जातिगुणक्रियादिनिमित्ता प्रत्ययव्यावृत्तिदृष्टा गौः शुक्ल: शीघ्रगतिरित्यादिस्तथाऽस्मद्विशिष्टानां योगिनां नित्येषु तुल्याकृतिगुणक्रियेषु परमाणुषु मुक्तात्ममनस्सु चान्यनिमित्तासंभवाद् येभ्यो निमित्तेभ्यः प्रत्याधारं 'विलक्षणोऽयं विलक्षणोऽयम्' इति प्रत्ययव्यावृत्तिर्देशकालविप्रकर्षदृष्टे च परमाणौ स एवायमिति प्रत्यभिज्ञानं च भवति ते विशेषाः । अथेतरेतराभावात् पृथक्त्वाद्वा प्रत्ययव्यावृत्ति: प्रत्यभिज्ञानं चेति न ततो विशेष इति चेत् । न । अथ इतरेतराभावस्य निषिध्यमानज्ञानजनकत्वमेव । व्यावृत्तज्ञानं च निषिध्यमानज्ञानाद् विलक्षणमतो विशेषरूपनिमित्तान्तरकार्यम् । पृथक्त्ववशाच्च पृथगिति व्यवहारः पार्थक्यमात्ररूपो न त्वेतस्मादयं विसदृश इत्येवंरूप इति ।
अयुतसिद्धानामाधार्याधारभूतानामिहेतिप्रत्ययहेतुर्यः संबन्धः स समवायः, यथेह तन्तुषु पट इति । इत्यलं प्रपञ्चेनेति ।
तत्रेति [पृ०४१ पं०९] एवं सति अर्थान्तरं विभिन्ना । युक्त्या प्रमाणेन । द्रव्यादन्य इत्यर्थ [पृ०४१ पं०१२] इति। भावो द्रव्यरूपो न भवतीति यावत् । एकं च तद् द्रव्यं चेति। अत्र नवस्वपि द्रव्येषु द्रव्यत्वाभेदादेकद्रव्यमिति व्यपदेश: प्रवर्तते । जात्यपेक्षया चैकवचनम् । तत एकद्रव्यमित्येकैकं द्रव्यमित्यर्थः । अस्यास्त्याश्रयभूतमिति [पृ०४१ पं०१३] । अस्येति भावस्याश्रयिण आधेयरूपस्याश्रयभूतमाधारभूतमित्यर्थः । अथ समानाधिकरणो बहुव्रीहिरेव क्रियतां किं कर्मधारयान्मत्वर्थीयेन कार्यमित्याह - समानेत्यादि [पृ०४१ पं०१४] । कदाचित् सर्वधनादिगणस्य इन्नर्थं कर्मधारय आद्रियते । कोऽर्थः ? सर्वं च तद्धनं च सर्वधनम्, तद्विद्यते यस्यासौ सर्वधनी सर्वकेशीत्यादि मत्वर्थीयान्तप्रयोगनिष्पत्त्यर्थः कर्मधारय आद्रियत इति । अन्यथा सर्वं धनमस्येति बहुव्रीहावस्त्यर्थस्योक्तत्वान्न मत्वर्थीयप्राप्ति: स्यात्। एवमिहापि । व्यक्तिभेदेन हेतोरर्थमाह- एकैकस्मिन्निति [पृ०४१ पं०१५] ।
अथ किं भावस्य द्रव्यलक्षणं न घटते येन तद्विलक्षणः साध्यते इत्याह-वैशेषिकस्य हीति । तत्राद्रव्यमाकाशेत्यादि [पृ०४१ पं०१६] । न विद्यते जनकं जन्यं च द्रव्यमस्येत्यद्रव्यम्। तत्र परमाणूनां जनकं नास्ति । आकाशादीनां च न जन्यं नापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org