________________
पार्श्वदेवगणिविरचिता तथा बुद्धीनामर्थानन्त्येनाऽऽनन्त्याद् बहुवचनम् इत्येवं शेषगुणेष्वपि भिन्नविभक्तिसमासादिकृतो विशेष आत्रेयादिशास्त्रादवसेयो नेहोच्यते, ग्रन्थगौरवात् । एते च चतुर्विंशतिर्गुणाः पृथिव्यादिद्रव्यनवकाश्रिता भवन्ति । तत्र किमपि द्रव्यं कियद्भिर्गुणैरुपेतमिति तत्तन्त्रानुसारतो बोद्धव्यम्, नेह प्रतन्यते ।
पञ्च कर्माणीत्यादि [पृ०४१ पं० ५] । तत्र शरीरावयवेषु तत्संबद्धेषु च मुशलादिषु गुरुत्व-प्रयत्न-संयोगेभ्यो यदूर्ध्वभाग्भिर्नभ:प्रदेशैः संयोगकारणमधोभाग्भिश्च विभागकारणं कर्मोत्पद्यते तदुत्क्षेपणम् । तथा शरीरावयवेषु तत्संबद्धेषु च गुरुत्व-प्रयत्न-संयोगेभ्यो यदूर्ध्वभाग्भिर्विभागकारणमधोभाग्भिश्च संयोगकारणं कर्मोत्पद्यते तदपक्षेपणम् । ऋजुरवयवी येन कर्मणा कुटिलः संजायते तदग्रयावयवोपलक्षिताकाशादिप्रदेशविभागपुर:सरं मूलदेशोपलक्षिताकाशादिप्रदेशसंयोगपुरःसरं च (ग्रं-१०००) तदाकुञ्चनम् । येन कर्मणा समुत्पन्नेनावयवी कुटिलः सन् ऋजुः संपद्यते मूलप्रदेशैर्विभागपुर:सरमय्यप्रदेशैः संयोगपुरःसरं च तत् प्रसारणम् । अभिहितप्रदेशेभ्यो येऽन्येऽनियतदिक्प्रदेशास्तैः संयोगविभागकारणं गमनम्। भ्रमणमटनम्। रेचनं विरेचनम् । स्यन्दनं स्रवणम् । आदिग्रहणान्निष्क्रमण-प्रवेशनादिग्रहः । अवरोधनमवरोधो ग्रहणमित्यर्थः । अयमर्थः- यत्र चलनमात्रं प्रतीयते देशाद्देशान्तरसंचरणरूपं तत् कर्म सर्वं गमनग्रहणेन गृह्यते ।
अत्रारेकते कश्चित्-ननु चोत्क्षेपणादिष्वपि गमनमात्रसद्भावाद् गमनग्रहणेनैव तेषां ग्रहणं सेत्स्यति किं कर्मपञ्चकेनेति ? । नैवम् । उत्क्षेपणादीनां जातिभेदेनानुगतव्यावृत्तप्रत्ययदर्शनाद्भेदेनोपन्यासः । तथाहि 'उत्क्षेपणम् उत्क्षेपणम्' इत्युत्क्षेपणवर्गेऽनुवर्ततेऽपक्षेपणादिवर्गाच्च व्यावर्तते। तथाऽपक्षेपणं स्ववर्गेऽनुवर्तते भेदान्तराच्च व्यावर्तते । इत्ययं सर्वत्रानुगतव्यावृत्तज्ञानबलाद् गमनाद् भेदो वाच्यः । तथा प्रतिनियतदिग्विशिष्टकार्यारम्भोपलक्षितत्वादेतेषां भेदः । तथा गमनाभेदे सत्यपि नोत्क्षेपणादौ गमनप्रतीतिरस्ति। किन्तु, उदाधुपसर्गविशेषादूर्ध्वप्रापणत्वादिकमर्थान्तरमेव प्रतीयत इति पृथगुपन्यासः ।
__तत्र परं सत्तेति [पृ०४१ पं०७] । इह सत्ता त्रिषु पदार्थेष्वनुगतप्रत्ययकारणत्वात् परं सामान्यम् । द्रव्यत्वादि चापरम् । अनुवृत्तव्यावृत्तप्रत्ययहेतुत्वात् सामान्यविशेषश्चोच्यते । तथाहि-द्रव्यत्वं परस्परविशिष्टेषु पृथिव्यादिष्वनुवृत्तिहेतुत्वात् सामान्यम् । गुणकर्मभ्यो व्यावृत्तिहे तुत्वाद्विशेषः। द्रव्यत्वादि [पृ०४१५०८] इत्यादिग्रहणाद् गुणत्व-कर्मत्वपृथिवीत्वादेर्ग्रहणम्॥
१. संपाद्यते J. P.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org