________________
१०१
न्यायप्रवेशकवृत्तिपञ्जिका। अनुभूतोऽनुमानेन । अन्ये तु दृष्टश्चक्षुषा, अनुभूतस्त्वगिन्द्रियेण, श्रुतस्तु शब्देनैवेति व्याचक्षते । एतेषां द्वन्द्वस्तेषु । किंरूपः ? । पट्वभ्यासा-ऽऽदरप्रत्ययजः । तत्र पटुप्रत्ययजः यथाश्चर्येऽर्थे पटुः संस्कारो जायते । यथा दाक्षिणात्यस्योष्ट्रदर्शनात् । स चातिशयेन स्मृतिहेतुर्भवति । तथा पूर्वपूर्वसंस्कारापेक्ष उत्तरोत्तरप्रत्ययोऽभ्यासः । तत्प्रत्ययजो यथा अभ्यासाद्विद्या-शिल्पव्यायामादिष्वभ्यस्यमानेषु तस्मिन्नेवार्थे पूर्वपूर्वसंस्कारापेक्षादुत्तरोत्तरप्रत्ययात् संस्कारातिशयो जायते । प्रयत्नेन मनः स्थापयित्वा अपूर्वमर्थं दिदृक्षमाणस्य विद्युत्संपातदर्शनवद् देवहूदे सौवर्णराजतपद्मदर्शनवद्वा आदरप्रत्ययजः संस्कारातिशयो जायते । स्थितस्थापक: स्पर्शवत्सु द्रव्येषु वर्तमानः स्वाश्रयमन्यथाकृतं यथावत् स्थापयति । धनुः-शाखादिषु ऋजुतादिकार्येण च लक्ष्यते ।
स्नेहः स्निग्धत्वमपां विशेषगुणः पिण्डन-विशदत्वयोर्हेतुः । धर्मः पुरुषगुणोऽतीन्द्रियः कर्तुः प्रिय-हित-मोक्षाणां हेतुः । तत्र प्रियं सुखम् । हितं तत्साधनं श्रीखण्डायेव । नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिर्मोक्षः । तत्साधनानि च धर्मश्रद्धाऽहिंसा सत्यवचनमस्तेयं ब्रह्मचर्यं क्रोधत्यागः शुचिद्रव्यासेवनमासनप्रणिधानासेवनैर्देवताभक्तिरुपवासोऽप्रमादश्चेत्यादीनि। दृष्टं प्रयोजनमनुद्दिश्यैतानि तत्साधनानि । अधर्मोऽप्यात्मगुणोऽतीन्द्रियः कर्तुरहित-प्रत्यवायहेतुः । तत्राऽऽगामिकटुफलजनकत्वादहितहेतुः, सम्प्रत्येवाऽहितफलजनक: प्रत्यवायहेतुरिति । तत्साधनानि च हिंसा-ऽनृत-स्तेयादीनि अवश्यकर्तव्याकरणमयथाकरणं विहितकालातिक्रमेणानुष्ठानकरणं प्रमादश्चालस्यमित्येतानि । दुष्टाभिसन्धिं चापेक्ष्याधर्मो जायते।
आकाशाख्यसमवायिकारणजन्यः श्रोत्रग्राह्यः क्षणिकः शब्दः । स द्विविधःवर्णलक्षणोऽवर्णलक्षणश्च । तत्राकारादिर्हकारपर्यन्तो वर्णलक्षणः । शङ्खादिनिमित्तकस्त्ववर्णलक्षणः । अकारादिवर्णव्यक्तीनां तत्रालक्ष्यमाणत्वात् । अत्र च गुणसूत्रे रूपरसगन्धस्पर्शा इति समासकरणम् ‘एते चत्वारोऽप्येकदैवैकत्र वस्तुन्यवश्यं प्राप्यन्ते' इति ज्ञापनार्थम् । संख्या इति च बहुवचनं संख्यात्वव्यतिरेकेणैकत्वादिसामान्यप्रदर्शनार्थम् । परिमाणानीति परिमाणत्वापेक्षया अणुत्व-महत्त्वाद्यपरसामान्यज्ञापनार्थम् । पृथक्त्वमित्येकवचनम् । पृथक्त्वसामान्यापेक्षया एकपृथक्त्वाद्यपरसामान्यशून्यतादर्शनार्थम् । एकपृथक्त्वमित्यादिश्च व्यवहार एकत्वादिसंख्याकृत एव । संयोग-विभागाविति द्विवचनं संयोगत्व-विभागत्वव्यतिरेकेणापरसामान्याभावेऽप्यवश्यं संयोगापेक्षी विभाग इति ज्ञापनार्थम् । तथा परत्वापरत्वे इत्यपि द्विवचनेन परत्वापरत्वसामान्यापेक्षयाऽपरसामान्याभावे साहचर्यज्ञापनार्थं समासकरणम्। १ °व्यायोगादि° C . ॥ २ °भवति° J. मु.॥ ३ मसनपरि° C.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org