________________
१००
पार्श्वदेवगणिविरचिता
लैङ्गिकं स्वार्थ-परार्थभेदाद् द्विधा । तत्र त्रिरूपाल्लिङ्गाल्लिङ्गिनि ज्ञानं स्वार्थम् । पञ्चावयवेन वाक्येन संशयिता-ऽव्युत्पन्न - विर्पर्यस्तमतीनां परेषां स्वनिश्चितार्थप्रतिपादनं परार्थमिति । अत्रापि लिङ्गदर्शनं प्रमाणम् । प्रमेयमग्निः । प्रमाताऽऽत्मा । वह्निनाऽत्र भाव्यमित्येवमनुमेयज्ञानं च फलमिति । दृष्टश्रुतानुभूतेष्वर्थेषु पट्वभ्यासा - ऽऽदरप्रत्ययजनितात् संस्कारादतीतानुभवविषयविषया स्मृतिर्यथैकपदस्मरणाद् द्वितीयपदस्मरणम् । स्थानविशेषाध्यारोपितेषु वा पदेषु स्मरणमिति। आम्नायविधातॄणामृषीणामतीता-ऽनागत-वर्तमानेष्वतीन्द्रियेष्वर्थेषु धर्मादिषु धर्मविशेषाद्यत् प्रातिभं ज्ञानं तदार्षम् । इत्येवं बुद्धिः ।
स्रगाद्यभिप्रेतविषयसान्निध्ये सतीष्टोपलब्धीन्द्रियार्थसन्निकर्षाद् यद् नयनादिप्रसादजनकमुत्पद्यते तत् सुखं हेयम् । विषयादिविरक्तस्य प्रशमरूपं सुखमुपादेयम् । विषाद्यनभिप्रेतविषयसांनिध्ये सत्यनिष्टोपलब्धीन्द्रियार्थसंनिकर्षाद् यदमर्षोपघातदैन्यजनकं तद् दुःखम् । तत्रामर्षोऽसहिष्णुता । उपघात उपहतिर्दुःखालम्बनं ज्ञानम् । दैन्यं दीनरूपता दुःखाज्जायते । स्वार्थं परार्थं वा अप्राप्तप्रार्थना इच्छा । प्रज्वलनात्मको द्वेषः । यस्मिन् सति प्रज्वलितमिवात्मानं मन्यते स द्वेषो मत्सर इति । प्रयत्न उत्साहश्चेतनावतो व्यापार इति यावत् । स द्विविधःजीवनपूर्वक इच्छा-द्वेषपूर्वकश्च । तत्र जीवनपूर्वकः सुप्तस्य प्राणापानसंतानप्रेरकः । इतरस्तु हिताहितप्राप्तिपरिहारसमर्थस्य व्यायामस्य कायिकव्यापारहेतुः । अयमर्थः कश्चिद्व्यायामो हितप्राप्तये हितसाधनकपूरादिप्राप्त्यर्थं भवति । कश्चित्त्वहितसाधनविषा - ऽह्यादिपरिहारायेति । द्रवत्वं शिथिलत्वं स्यन्दनकर्मकारणम् । गुरुत्वं गुरुभारवत्त्वं जल- भूम्योः पतनकर्मकारणम् अधोगतिमत्त्वाद् गुर्विदमित्यानुमानिकप्रत्ययग्राह्यम् ।
संस्कारस्त्रिविधः वेगो वासना स्थितस्थापकश्च । तत्र वेगो यो मूर्तिमत्सु पञ्चसु द्रव्येषु पृथिव्यप्तेजोवायुमनः स्वरूपेषु स्पर्शवद्द्रव्यसंयोगविशेषविरोधी नियतायां दिशि क्रियाप्रबन्धस्य हेतुः नोदना - ऽभिघात - संयुक्तसंयोगाख्यनिमित्तविशेषापेक्षात् कर्मण उपजायते सोऽभिधीयते । यथेषोरिति । तत्र नुद्य-नोदकयोर्यत् सहगमनं तन्नोदनम् । इहेषुर्नुद्यः । नोदकश्च हस्तप्रत्यञ्चादिः । नुद्य-नोदकयोरेकस्य यत्रावस्थितिरपरस्य चलनं सोऽभिघातः । यत्रैकस्मिन्नभिहन्यमाने तत्संबन्धादपरे चलन्ति स संयुक्तसंयोग इति । वासनाख्यस्त्वात्मगुणो दृष्टश्रुतानुभूतेष्वर्थेषु स्मृत्यभिज्ञानहेतुः पट्वभ्यासा - SSदरप्रत्ययजो ज्ञान -मद-दुःखादिविरोधी यः सोऽभिधीयते । तत्र स्मृत्यभिज्ञानहेतुः केष्वित्याह- दृष्टेति । दृष्टः प्रत्यक्षेण, श्रुतः शब्देन, ● पर्यस्तानां J. P. ॥ २. विषयाद्यन J ॥ ३. ● संनिकर्षे सति यद° c. ||
१.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org